Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1076
________________ १०५८ न्यायकोशः। इत्युच्यते (सि० च० २ पृ० २८)। स्वरूपासिद्धश्च शुद्धासिद्धभागासिद्धविशेषणासिद्धविशेष्यासिद्धासमर्थविशेषणासमर्थविशेष्यभेदेन बहुविधः ( त० भा० पृ० ४५) ( त० सं० २) ( सि० च० २)। स्वरूपासिद्धश्चायमसिद्धप्रभेदः । लक्षणं तु वक्ष्यमाणा स्वरूपासिद्धिरेव । सा च हेतुनिष्ठपक्षावृत्तित्वादिः स्वरूपासिद्धिशब्दे दृश्या (सि० च०)। स्वरूपासिद्धश्चायं कचित् संदेहसिषाधयिषयोरभावात् सिद्धसाधने अन्तर्भवति (वै० उ० ३।१।१५ पृ०. .१५६ )। [ख] यो हेतुः पक्षे न वर्तते स स्वरूपासिद्धः। यथा तप्तायःपिण्डो वह्निमान् धूमात् इत्यादौ धूमो हेतुः स्वरूपासिद्धः। यथा वा शशादिरश्वो विषाणित्वात् इत्यादौ विषाणित्वं हेतुः स्वरूपासिद्धः (प्र० प्र०)। अत्र सूत्रम् • यस्माद्विषाणी तस्मादश्वः ( वै० ३।१।१६ ) इति । [ग] पक्षनिष्टाभावप्रतियोगी हेतुः । यथा हृदो द्रव्यं धूमात् इत्यादौ धूमः स्वरूपासिद्धः (त० कौ० २)। अत्र पक्षे हृदे वर्तमानः धूमस्याभावः तस्य प्रतियोगी धूमो भवति इति हृदो द्रव्यं धूमात् इत्यादौ धूमो हेतुः स्वरूपासिद्धः । स्वरूपासिद्धत्वज्ञानं परामर्शप्रतिबन्धकम् । हृदे धूमो नास्ति इति ज्ञाने सति द्रव्यत्वव्याप्यधूमवान् हृदः इति परामर्शासंभवात् । एतस्य परामर्शस्य हृदे धूमसंबन्धावगाहित्वात् ( त० कौ० २) इति । स्वरूपासिद्धिः-( हेतुदोषः ) पक्षे व्याप्यत्वाभिमतस्याभावः । यथा घटः पृथिवी पटत्वात् इत्यत्र घटरूपपक्षे हेत्वभावः ( न्या० म० २ )। यथा वा हृदो द्रव्यं धूमात् इत्यादौ हृदनिष्ठो धूमाभावः स्वरूपासिद्धिः (मु० २) ( गौ० वृ० १२।८) (वै० वि० ३।१।१५) (न्या० बो० ) (न्या० म० २ पृ० २१ )। स्वरूपासिद्धिश्चेयमसिद्धिप्रभेदः । भागासिद्धिरत्रैवान्तर्भवति ( त० भा० )। अत्र च हेत्वभाववत्पक्षः हेतुमदन्यः पक्षः पक्षावृत्तिहेतुः पक्षे हेत्वभावः पक्षनिष्ठं हेत्वभाववत्त्वम् पक्षनिष्ठं हेतुमदन्यत्वम् हेतुनिष्ठं पक्षावृत्तित्वम् हेतुनिष्ठ पक्षवृत्तित्ववदन्यत्वम् हेतुमन्निष्ठं पक्षान्यत्वादिकम् हेतुनिष्ठं पक्षनिष्ठाभावप्रतियोगित्वम् विशिष्टहेतौ पक्षादेविशेष्याभाववत्त्वादिकम् पक्षादेहेत्वसमानाधिकरणधर्मवत्त्वम् इत्यादयः स्वरूपासिद्धिव्यक्तयो बाधवदूह्याः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102