Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः। इति । ३ तात्रिकास्तु प्राणादिवायोापारविशेष इत्याहुः । ४ भिषजस्तु प्रकुपितवायोापारविशेष इत्याहुः (सुश्रुते )। ५ गायकास्तु निषादादयस्तत्रीकण्ठोत्था गानजध्वनय इत्याहुः । ते च स्वराः सप्त षड़ ऋषभगान्धारौ मध्यमः पञ्चमस्तथा । धैवतश्च निषादश्च स्वराः सप्त प्रकीर्तिताः ॥ (भरतः ) ( अमरः ॥७१) इति । तत्र निषादादिस्वराणां प्राणिविशेषस्वरतुल्यता नारदोक्ता यथा षडं रौति मयूरो हि वृषो नर्दति चर्षभम् । अजा विरौति गान्धारं क्रौञ्चो नर्दति मध्यमम् ॥ पुष्पसाधारणे काले कोकिलो रौति पश्चमम् । अश्वश्च धैवतं रौति निषादं रौति कुञ्जरः ॥ इति ( अमर० टी० )। स्वराणामुत्पत्तिस्थानादिकं च भरतशास्त्रादौ विज्ञेयम् । ६ केचिच्छकुनज्ञास्तु इष्टानिष्टफलसूचको नासिकानिर्गतो वायोर्व्यापारविशेष इत्याहुः । ७ मध्वाचार्यास्तु स्वरतेस्तु स्वरः विष्णुः इत्याहुः ( तैत्ति० शिक्षा० मध्वभा० पृ० १ )। स्वरसः-१ विवादशून्यत्वम् । यथा घटत्वेन घटो नास्ति इति प्रत्ययस्य
विवादशून्यत्वम् (ग, चतुर्द० खण्डन० पृ० ७२ )। अत्र च विवादविषयस्तु घटत्वेन पटो नास्ति इत्याकारको व्यधिकरणधर्मावच्छिन्नप्रतियोगिताकाभावविषयकः प्रत्ययः इति बोध्यम् (व्यधि० अभा० खण्डन०)। २ स्वाभिप्रायः । यथा वाक्यादौ रचनाभङ्गीविशेषरूपः । ३ भिषजस्तु क्वाथः इत्याहुः । अत्रोक्तं वैद्यके सद्यः क्षुण्णादाद्रव्याद्वस्त्रयवादिपीडनात् । यो रसस्त्वभिनिर्याति स्वरसः स प्रकीर्तितः ॥ ( वाच० ) इति ।
४ अन्ये तु शिलापिष्टकल्कविशेष इत्याहुः ( शब्दर० ) ( वाच० )। स्वरुः-१ [क] छिद्यमानस्य यूपस्य यः प्रथमं पतितः शकलः स स्वरुः
(जै० न्या० अ० ४ पा० २ अधि० १)। [ख] स्वरुः काष्ठशकलम् (जै० सू० वृ० अ० ४ पा० २ सू० १)। २ पश्वङ्गम्
(जै० न्या० अ० ४ पा० ४ अधि० १०)। स्वरूपम्-१ स्वात्मकः पदार्थः । यथा घटस्वरूपं द्रव्यम् इत्यादौ स्वरूप___ शब्दस्यार्थः । काव्यज्ञास्तु २ स्वभावविशेषः ( अमरः १ नाट्य० ३८) ...३ पण्डितः ४ सुन्दरश्च इत्याहुः ( अमरः २।३।१३१)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102