Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1066
________________ १०४८ न्यायकोशः। सप्तभङ्गीनयापेक्षो हेयादेयविशेषकृत् ॥ ( सर्व० सं० पृ० ८४ आहे. )। सप्तभङ्गीनयस्तु ( १ ) स्यादस्ति ( २ ) स्यान्नास्ति (३) स्यादस्ति च नास्ति च (४ ) स्यादवक्तव्यः (५) स्यादस्ति चावक्तव्यः (६) स्यान्नास्ति चावक्तव्यः (७ ) स्यादस्ति च नास्ति चावक्तव्यः इति । अत्र स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपकोनेकान्तद्योतकः ( सर्व० सं० पृ० ८४ आहे. ) । स्यात् इत्यव्ययम् तिङन्तप्रतिरूपकम् कथंचिदर्थकम् । स्यादस्ति कथंचिदस्ति . इत्यर्थः । एवमपि ( शारी० भा० टी० २।२।३३ पृ० ३४ )। यथा घटः स्वस्वरूपेणास्ति पटस्वरूपेण नास्ति इत्यादि । एवम् एकत्वनित्यत्वादिष्वपीममेव सप्तभङ्गीनयं योजयन्ति ( शारीर० भा० २।२।३३ )। अयं भावः । घटादेहि सर्वात्मना सदेकरूपत्वे प्राप्यात्मनाप्यस्त्येव सः इति तत्प्राप्तये यत्नो न स्यात् । अतो घटत्वादिरूपेण कथंचिदस्ति प्राप्तत्वादिरूपेण कथंचिन्नास्ति इत्येवमनेकरूपत्वं वस्तुमात्रस्यास्थेयम् ( शा० भा० टी० र० प्र० २।२।३३ ) इति । एवम् एकत्वमनेकत्वं चेति द्वयमादाय (१) स्यादेकः ( २ ) स्यादनेकः ( ३ ) स्यादेकोनेकश्च ( ४) स्यादवक्तव्यः (५) स्यादेकोवक्तव्यः (६) स्यादनेकोवक्तव्यः (७) स्यादेकोनेकश्चावक्तव्यश्च इति । तथा स्यान्नित्यः स्यादनित्यः इत्याह्यम् ( शारी० भा० टी० रत्नप्र० २।२।३३ )। स्वगतम्-१ स्वस्मिन्विद्यमानम् । यथा पटश्च स्वगतरूपादेः समवायि कारणम् ( त० सं० ) इत्यादौ ग्रन्थे स्वगतशब्दस्यार्थः । यथा वा वेदान्तिमते एकमेवाद्वितीयम् ब्रह्म (छा० उ० ६।२।१ ) इत्यादिश्रुतौ एकमेव इतिशब्दार्थस्वगतभेदाभेदनिवृत्तिघटकस्वगतशब्दार्थः । २ नाटक शास्त्रज्ञास्तु अश्राव्यं वाक्यं स्वगतम् इत्याहुः । स्वतःप्रामाण्यम्-विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वं प्रमायाः स्वतस्त्वम् ( सर्व० सं० पृ० २८३ जैमि० )। स्वतन्त्रः-स्वतन्त्रो भगवान्विष्णुर्निर्दोषोशेषसद्गुणः (सर्व० सं० पृ० १२८ . पूर्णप्र०)। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102