Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1064
________________ १०४६ न्यायकोशः। पृ० ४९-५० ) इति । अत्र सूत्रम् आत्ममनसोः संयोगविशेषात् (प्रणिधानादिसंनिधानादसमवायिकारणात् ) संस्काराच्च स्मृतिः (वै०९।२।६) इति । अत्र स्मृतौ संयोगविशेषोसमवायिकारणम् । संस्कारो निमित्तकारणम् । आत्मा समवायिकारणम् इति विज्ञेयम् (वै० उ० ९।१।६)। अत्रेदं बोध्यम् ॥ भावनाख्यः संस्कारोनुभवेन जन्यते स्मृतिं जनयति च इति । संस्कारस्तद्बुद्ध एव स्मृतिं जनयति । उद्बोधकाश्च संस्कारस्य सदृशदर्शनादयः ( त० भा० पृ० ३७ )। तथा चोक्तम् सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः इति । गौतमसूत्रे ( ३।२।४२) च ते प्रदर्शिताः । अत्र कश्चिदाह स्मृतिजननाय संस्कारोद्दीपनमुद्बोध( वाच० ) इति । अत्र मतभेदः । स्मृति संस्कारं च प्रति अनुभवस्यानुभवत्वेनैव जनकत्वम् इति प्राचां मतम् । नवीनाना मते तु अनुभवस्य ज्ञानत्वेन जनकत्वम् (नील० गु० पृ० ३८) इति । प्राचामयमभिप्रायः तत्तद्विषयकस्मृतिं तादृशसंस्कारं च प्रति तत्तद्विषयकानुभवत्वेनैव हेतुता। न तु तत्तद्विषयकज्ञानत्वेन । अनुभवत्वस्यापि जातित्वेन ज्ञानत्वापेक्षया गौरवाभावात् । न च विनिगमनाविरहः इति शङ्कयम् । व्याप्यधर्मपुरस्कारेण कारणत्वसंभवे व्यापकधर्मस्यान्यथासिद्धिनिरूपकत्वात् इति । नव्यानां पुनरयमाशयः । तत्तद्विषयकस्मृतिं तादृशसंस्कारं च प्रति तत्तद्विषयकज्ञानत्वेनैव हेतुता । न त्वनुभवत्वेन । संस्कारस्य फलनाश्यतया प्रथमस्मरणेनैवानुभवजन्यसंस्कारस्य नाशेन सकृदनुभूतस्य स्मरणोत्तरमस्मरणप्रसङ्गात् (नील. मु० पृ० ३८-३९) इति । स्मृतिर्द्विविधा यथार्था अयथार्था चेति । तत्र आद्या प्रमाजन्या। द्वितीया अप्रमाजन्या (त० सं० ) । जागरे तदुभयं संभवति । स्वप्ने तु सर्वमेव ज्ञानं स्मरणम् अयथार्थ च (त० भा०) इति। द्वयोर्लक्षणे च संस्कारसंबन्धावच्छिन्नानुभवप्रमाभ्रमनिष्ठजनकतानिरूपितजन्यते बोध्ये ( वाक्य० गु० पृ० २१ ) । अत्र वेदान्तिन आहुः स्मृतिरपि ( प्रमाजन्यापि ) प्रमाणमेव (प्रमा) (प्र० प० पृ० ४) इति । अयं भावः स्मृतेः प्रमारूपत्वेन प्रमाकरणत्वरूपप्रमाणलक्षणाक्रान्तत्वादनुभवस्यापि प्रत्यक्षादिचतुष्टयस्येव प्रमाणान्तर Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102