Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1062
________________ न्यायकोशः । समुदीयमानस्य स्फोटरूपस्यैव नित्यतया तत्रैव नित्यसंबन्धस्य योग्यतया वृत्तिमत्त्वमुचितम् इति । तथा च योगसूत्रभाष्यकृव्यास आह तदेतेषामर्थसंकेतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य संकेत्यते तदेकं पदमेकबुद्धिविषय एकप्रयत्नाक्षिप्तमभागमक्रमवर्णं बौद्धमन्त्यवर्णप्रत्ययोपस्थापितं प्रतीयते इति । स्फोटच पूर्वपूर्ववर्णानुभवसहितचरमवर्णानुभवव्यङ्गयः । अत्र स्फोट - स्याभिव्यक्तौ प्राकृतो ध्वनिः कारणम् । चिरचिरतरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनिः कारणम् इति विवेको ज्ञेयः ( ल० म ० १ ) । स च शाब्दिकमतप्रसिद्धः । अत्र महाभाष्यम् अथ गौरित्यत्र कः शब्दः । येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणानां संप्रत्ययो भवति स शब्द . उच्यते इति । तथा च भागवते ( १२।६।४० ) स्फोट श्रवणस्यात्म लिङ्गत्वमुक्तम् शृणोति य इमं स्फोटं सुप्ते श्रोत्रे च शून्यदृकूं । येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ॥ ( मञ्जूषायाम् ) इति । नैयायिकमते तु स्फोटो नाङ्गीक्रियत एव । यद्यङ्गीक्रियेत तदापि वर्णवत्सोनित्य एव इति मन्तव्यम् । अयं भावः । पूर्वपूर्ववर्णगोचर संस्कारसहितश्चरमवर्णोपलम्भ एव स्फोटव्यञ्जकः इति शाब्दिकैः स्वीकरणीयम् । तथा च नैयायिकमतेपि तादृशचरमवर्णोपलम्भेनैवार्थप्रत्ययोपपत्तावलं स्फोटाङ्गीकारेण (न्या०म० ४ पृ० ३२) (त० प्र० ४ पृ० १२७ ) इति । अथ स्फोटभेदा उच्यन्ते । अष्टौ स्फोटा भवन्ति ( १ ) वर्णस्फोट: ( २ ) पदस्फोट: ( ३ ) वाक्यस्फोट : (४) अखण्डपदस्फोट: ( ५ ) अखण्डवाक्यस्फोट : ( ६ ) वर्णजातिस्फोट : (७) पदजातिस्फोट: (८) वाक्यजातिस्फोटश्च इति । तत्र वाक्यस्फोट एव वास्तवः अन्येषां त्ववास्तवत्वम् इति वैयाकरणानां सिद्धान्तः (वै० सा० पृ० ५९ ) । अत्र वर्णस्फोटमारभ्याखण्डवाक्यस्फोटपर्यन्तं पच व्यक्तिस्फोटा भवन्ति । शिष्टास्तु त्रयो जातिस्फोटा भवन्ति इति बोध्यम् । अत्र मीमांसका वेदान्तिनश्च प्रत्येकपदशक्तिसाचिव्येनाकाङ्क्षादिवशात्पदाद्वाक्यार्थबोधस्तदा पदस्फोटः । यदा तु तन्निरपेक्षैव सा बोधं जनयति तदा वाक्यस्फोट: इत्याहुः (वै० सा० द० पृ० ४२५ ) । पुनश्च स्फोटो द्विविधः स्रखण्डः अखण्डश्च । तत्र पद्वाक्ययोरखण्ड़त्वं चाविद्यमानावयवकत्वम् । २०४४ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102