________________
न्यायकोशः ।
समुदीयमानस्य स्फोटरूपस्यैव नित्यतया तत्रैव नित्यसंबन्धस्य योग्यतया वृत्तिमत्त्वमुचितम् इति । तथा च योगसूत्रभाष्यकृव्यास आह तदेतेषामर्थसंकेतेनावच्छिन्नानामुपसंहृतध्वनिक्रमाणां य एको बुद्धिनिर्भासस्तत्पदं वाचकं वाच्यस्य संकेत्यते तदेकं पदमेकबुद्धिविषय एकप्रयत्नाक्षिप्तमभागमक्रमवर्णं बौद्धमन्त्यवर्णप्रत्ययोपस्थापितं प्रतीयते इति । स्फोटच पूर्वपूर्ववर्णानुभवसहितचरमवर्णानुभवव्यङ्गयः । अत्र स्फोट - स्याभिव्यक्तौ प्राकृतो ध्वनिः कारणम् । चिरचिरतरस्थितौ तु प्राकृतध्वनिजातवैकृतध्वनिः कारणम् इति विवेको ज्ञेयः ( ल० म ० १ ) । स च शाब्दिकमतप्रसिद्धः । अत्र महाभाष्यम् अथ गौरित्यत्र कः शब्दः । येनोच्चारितेन सास्नालाङ्गूलककुदखुरविषाणानां संप्रत्ययो भवति स शब्द . उच्यते इति । तथा च भागवते ( १२।६।४० ) स्फोट श्रवणस्यात्म लिङ्गत्वमुक्तम् शृणोति य इमं स्फोटं सुप्ते श्रोत्रे च शून्यदृकूं । येन वाग्व्यज्यते यस्य व्यक्तिराकाश आत्मनः ॥ ( मञ्जूषायाम् ) इति । नैयायिकमते तु स्फोटो नाङ्गीक्रियत एव । यद्यङ्गीक्रियेत तदापि वर्णवत्सोनित्य एव इति मन्तव्यम् । अयं भावः । पूर्वपूर्ववर्णगोचर संस्कारसहितश्चरमवर्णोपलम्भ एव स्फोटव्यञ्जकः इति शाब्दिकैः स्वीकरणीयम् । तथा च नैयायिकमतेपि तादृशचरमवर्णोपलम्भेनैवार्थप्रत्ययोपपत्तावलं स्फोटाङ्गीकारेण (न्या०म०
४ पृ० ३२) (त० प्र० ४ पृ० १२७ ) इति । अथ स्फोटभेदा उच्यन्ते । अष्टौ स्फोटा भवन्ति ( १ ) वर्णस्फोट: ( २ ) पदस्फोट: ( ३ ) वाक्यस्फोट : (४) अखण्डपदस्फोट: ( ५ ) अखण्डवाक्यस्फोट : ( ६ ) वर्णजातिस्फोट : (७) पदजातिस्फोट: (८) वाक्यजातिस्फोटश्च इति । तत्र वाक्यस्फोट एव वास्तवः अन्येषां त्ववास्तवत्वम् इति वैयाकरणानां सिद्धान्तः (वै० सा० पृ० ५९ ) । अत्र वर्णस्फोटमारभ्याखण्डवाक्यस्फोटपर्यन्तं पच व्यक्तिस्फोटा भवन्ति । शिष्टास्तु त्रयो जातिस्फोटा भवन्ति इति बोध्यम् । अत्र मीमांसका वेदान्तिनश्च प्रत्येकपदशक्तिसाचिव्येनाकाङ्क्षादिवशात्पदाद्वाक्यार्थबोधस्तदा पदस्फोटः । यदा तु तन्निरपेक्षैव सा बोधं जनयति तदा वाक्यस्फोट: इत्याहुः (वै० सा० द० पृ० ४२५ ) । पुनश्च स्फोटो द्विविधः स्रखण्डः अखण्डश्च । तत्र पद्वाक्ययोरखण्ड़त्वं चाविद्यमानावयवकत्वम् ।
२०४४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org