________________
न्यायकोशः।
१०४३ स्पार्शनम्-त्वगिन्द्रियजन्यं प्रत्यक्षम् । यथा द्रव्यस्पार्शनप्रत्यक्षं प्रति स्पर्शः
कारणम् इत्यादौ ग्रन्थे स्पार्शनशब्दस्यार्थः । स्पार्शनं च द्विविधम् स्पर्शविषयकम् स्पर्शवद्रव्यविषयकं चेति। स्पृहा-(दोषः ) धर्माविरोधेन प्राप्तीच्छा ( गौ० वृ० ४।१।३ )। यथा
पुष्पेभ्यः स्पृहयति इत्यादौ स्पृहधात्वर्थः । यथा वा स्पृहावती वस्तुषु केषु मागधी ( रघु० ३।५) मिथुने स्पृहावती ( कुमार० ) इत्यादौ
च स्पृहाशब्दार्थः। . स्फुटत्वम्--१ तद्विषयकजिज्ञासानधीनप्रतिपत्तिविषयत्वम् । यथा दोष
लक्षणे कृते दुष्टहेतुलक्षणस्य स्फुटत्वेन लाभः इत्यादौ स्फुटत्वशब्दस्यार्थः (ग० हेत्वा० सामा० लक्ष० १)। २ ज्योतिषज्ञास्तु सूर्यादिग्रहाणां मेषादिराशिध्वंशविशेष स्थितिः तत्तदंशकलादिगतिश्च इत्याहुः । ३ विका
शनम् । ४ विदलनं च इति काव्यज्ञा आहुः । स्फोटः-वर्णातिरिक्तो वर्णाभिव्यङ्गयोर्थप्रत्यायको नित्यः शब्दः (सर्व० सं०
पृ० ३०० पाणि०) (तर्कप्र० ख० पृ० १२६)। अत्र व्युत्पत्तिः स्फुट्यते व्यज्यते वर्णैः इति स्फोटः इति स्फुटत्यर्थोस्मात् इति स्फोटः इति च यौगिकशब्दाभिधेयत्वं शब्दब्रह्मणः सूचयति (वै० सा० पृ० २१२)। स्फोटत्वं च स्फुटत्यभिव्यक्तीभवत्यर्थोस्मात् अनेन वा इति व्युत्पत्त्या अर्थप्रकाशकत्वम् । प्रकाशश्च ज्ञानम् । तथा च अर्थनिष्ठविषयताप्रयोजकशक्तिमत्त्वं पर्यवस्यति । वर्णस्यैव तत्त्वाभ्युपगमे वर्णस्फोटः पदादीनां तत्त्वाभ्युपगमे तु पदादिस्फोटः इति व्यवहारः (वै० सा० द० पृ० २१२)। स्फोटस्यावश्यकत्वमाह । पदानां वर्णसमूहरूपाणामाशुविनाशितयैकक्षणावस्थायित्वाभावादप्रत्यक्षत्वं तावन्निरूढम् । तथा च पदाप्रत्यक्षे पदार्थस्मृतेः शाब्दबोधहेतोः असंभवः स्यात् । अतः स्फोटः कश्चनाङ्गीकर्तव्यः यतोर्थप्रत्ययः इति । अथ. वा वर्णानां प्रत्युच्चारणमन्यथा प्रतीयमानतया अनित्यत्वेन आशुविनाशिनां च तेषां मेलनासंभवेन तत्समुदायस्यापि संबन्धित्वाभावेन प्रत्येकं वर्णेषु वृत्तौ व्यभिचारेण च पूर्वपूर्ववर्णानुभवजन्यसंस्कारबीजवत्यन्त्यवर्णजनितपरिपाकशालिनि हृदये झटिति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org