________________
१०४२ .
न्यायकोशः।
गुण एव च ॥ ( भार० आश्व० अ० ५० ) इति । त्वगिन्द्रियमात्रप्रहणो योर्थ इत्यत्र अर्थशब्देन धर्मी भावभूत उच्यते । तेन स्पर्शत्वादौ स्पर्शायभावे च नातिव्याप्तिः । तथा च त्वगिन्द्रियग्राह्यगुणवृत्तिगुणत्वावान्तरजातिमत्त्वम् इति पर्यवसितोर्थः । तेन नातीन्द्रियस्पर्शाद्यनुपप्रहः (वै० उ० ३।१।१ )। अत्रेदं बोध्यम् । स्पर्शः द्रव्यप्रत्यक्षे त्वक्सहकारी रूपानुविधायी च (वै० उ० ३।१।१ ) ( त० सं० ) (प्रशस्त० पृ० १२)। तदर्थस्तु रूपसमानाधिकरणात्यन्ताभावाप्रतियोगी इति । रूपवति स्पर्शो नियमेन वर्तते इति सुगमोर्थः । [ ख ] त्वगिन्द्रियमात्रग्राह्यो गुणः (त० सं० १)। अत्र स्पर्शत्वेतिव्याप्तिवारणाय गुणपदम् । संयोगादावतिव्याप्तिवारणाय मात्रपदम् (त० दी० १ पृ० १३) इति । [ग] त्वङ्मात्रग्राह्यजातिमान् (त० कौ० १)। सा च जातिः स्पर्शत्वम् । यथा त्वचा घटं स्पृशति इत्यादौ स्पृश्धात्वर्थः स्पर्शः । न्यायवैशेषिकमते स्पर्शत्रिविधः शीतः उष्णः अनुष्णाशीतश्चेति । तत्र शीतो जले वर्तते। उष्णस्तेजसि । अनुष्णाशीतः पृथिवीवाय्वोवर्तते । तत्र नित्यायामनित्यायां चेति द्विविधायामपि पृथिव्यां स्पर्श अनित्यः पाकजश्च । जलतेजोवायुषु च द्रव्येष्वपाकजः नित्यगतो नित्यः अनित्यगतः अनित्यश्चेति ( प्रशस्त० पृ० १४ ) ( वै० उ० ७।१।६ ) ( त० सं०)। चित्रस्पर्शस्तु रूपस्थलीययुक्त्या (पृ० ६९०) स्वीकरणीय एव (वै० वि० ७१।६ पृ० २९२ ) इति। केचित्तु कठिनादिः स्पर्शः संयोगविशेष एव नातिरिक्तः इति मन्यन्ते । बौद्धास्तु नामरूपेन्द्रियाणां मिथः संयोगः स्पर्शः इत्याहुः । २ वेदान्तिनस्तु संबन्धः ( संनिकर्षः ) ( गीता मध्वभा० )। यथा मात्रास्पर्शास्तु. कौन्तेय शीतोष्णसुखदुःखदाः ( गीता० २।१४ ) इत्यादौ स्पर्शशब्दस्यार्थ इत्यङ्गीचक्रुः । ३ वैयाकरणास्तु कादयो मावसानाः (२५) वर्ग्यवर्णाः इत्याहुः । ४ काव्यज्ञास्तु ग्रहणम् । ५ दानम् । ६ युद्धं च
इत्याहुः । ७ रोगः इति भिषज आहुः । स्पर्शतन्मात्रम्-१ स्पर्शः । २ सांख्यास्तु वायूपादानकारणं स्वर्शमात्र. गुणकः सूक्ष्मभूतविशेषः इत्याहुः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org