________________
न्यायकोशः ।
१०४५
स्फ्यः—खङ्गाकारं काष्ठम् ( जै० न्या० अ० ३ पा० १ अधि० ६ ) । स्मयः – १ ( दोषः ) गुणवति निर्गुणत्वधीः ( गौ० वृ० ४।१।३ )
२ अद्भुतरसस्थायिभावः इत्यालंकारिका आहुः । ३ गर्वः इति काव्यज्ञा आहुः । ४ कातर्यम् इति नाटकज्ञा आहुः । गायकः इति गानशास्त्रज्ञा आहुः ।
स्मरणम् – १ स्मृतिः । २ अर्थालंकारविशेषः इत्यालंकारिका आहुः । तदुक्तम् सदृशानुभवाद्वस्तुस्मृतिः स्मरणमुच्यते ( सा० द० परि० १० लो० ० २७ ) इति । ३ चिन्तनम् इति काव्यज्ञा वदन्ति । स्मार्तः- -१ स्मृतिशास्त्राभिज्ञः । २ स्मृतिविहितं कर्म । यथा स्मार्तं वैदिकवञ्चरेत् अन्योपि स्मार्तमाचरेत् इत्यादौ गृह्याम्युपासनवैश्वदेवदानादि स्मार्तं भवति ।
स्मृति: - १ (बुद्धिः ) संस्कारमात्रजन्यं ज्ञानम् (त० सं० ) । प्रत्यक्षबुद्धि - निरोधे तदनुसंधानविषयः स्मृति: ( न्या० वा० ) इति वार्तिके उक्तम् । यथा मातुः स्मरति इत्यादौ स्मृधात्वर्थः । संस्कारमात्रजन्यम् इत्यस्य चक्षुराद्यजन्यत्वे सति संस्कारजन्यम् इत्यर्थः । मात्रपदोपादानेन प्रत्यभिज्ञायां नातिव्याप्तिः । प्रत्यभिज्ञायाश्चक्षुर्जन्यत्वात् (नील० १ पृ०१४ ) इति । अत्र प्रानो नैयायिकाः स्मृतिलक्षणे न मात्रपदमावश्यकम् । न च सोयं देवदत्तः इति प्रत्यभिज्ञायामतिव्याप्तिः इति वाच्यम् । तत्र संस्कारजनिततत्तास्मृतिरेव हेतुः । न तु संस्कारोपि इत्यतिव्याप्तिविरहात् इत्याहुः ( त० कौ० १ पृ० ६ ) । मध्वाचार्यानुयायिनस्तु स्मृतिः मनोजन्या न तु संस्कारजन्या । संस्कारस्तु मनसस्तदर्थसंनिकर्षरूप एव यथा योगीन्द्रियाणां योगजो धर्म इत्याहुः ( प्र० प० पृ० ९ ) स्मृतिश्च वैशेषिकनये बुद्ध्यन्तर्गत विद्याप्रभेदः ( प्रशस्त ० पृ० २५ ) लिङ्गदर्शनेच्छानुस्मरणाद्यपेक्षादात्ममनसोः संयोग विशेषात् पट्टभ्यासादरप्रत्ययजनिताच्च संस्कारात् दृष्टश्रुतानुभूतेष्वर्थेषु विशेषानुस्मरणेच्छाद्वेषहेतुः तदतीतविषया स्मृति: ( प्रशस्त० २ पृ० ३२ ) इति अत्र पाठान्तरम् विशेषानुव्यवसायेच्छानुस्मरणद्वेषहेतुः (प्रशस्त० २
|
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org