________________
१०४६
न्यायकोशः। पृ० ४९-५० ) इति । अत्र सूत्रम् आत्ममनसोः संयोगविशेषात् (प्रणिधानादिसंनिधानादसमवायिकारणात् ) संस्काराच्च स्मृतिः (वै०९।२।६) इति । अत्र स्मृतौ संयोगविशेषोसमवायिकारणम् । संस्कारो निमित्तकारणम् । आत्मा समवायिकारणम् इति विज्ञेयम् (वै० उ० ९।१।६)। अत्रेदं बोध्यम् ॥ भावनाख्यः संस्कारोनुभवेन जन्यते स्मृतिं जनयति च इति । संस्कारस्तद्बुद्ध एव स्मृतिं जनयति । उद्बोधकाश्च संस्कारस्य सदृशदर्शनादयः ( त० भा० पृ० ३७ )। तथा चोक्तम् सदृशादृष्टचिन्ताद्याः स्मृतिबीजस्य बोधकाः इति । गौतमसूत्रे ( ३।२।४२) च ते प्रदर्शिताः । अत्र कश्चिदाह स्मृतिजननाय संस्कारोद्दीपनमुद्बोध( वाच० ) इति । अत्र मतभेदः । स्मृति संस्कारं च प्रति अनुभवस्यानुभवत्वेनैव जनकत्वम् इति प्राचां मतम् । नवीनाना मते तु अनुभवस्य ज्ञानत्वेन जनकत्वम् (नील० गु० पृ० ३८) इति । प्राचामयमभिप्रायः तत्तद्विषयकस्मृतिं तादृशसंस्कारं च प्रति तत्तद्विषयकानुभवत्वेनैव हेतुता। न तु तत्तद्विषयकज्ञानत्वेन । अनुभवत्वस्यापि जातित्वेन ज्ञानत्वापेक्षया गौरवाभावात् । न च विनिगमनाविरहः इति शङ्कयम् । व्याप्यधर्मपुरस्कारेण कारणत्वसंभवे व्यापकधर्मस्यान्यथासिद्धिनिरूपकत्वात् इति । नव्यानां पुनरयमाशयः । तत्तद्विषयकस्मृतिं तादृशसंस्कारं च प्रति तत्तद्विषयकज्ञानत्वेनैव हेतुता । न त्वनुभवत्वेन । संस्कारस्य फलनाश्यतया प्रथमस्मरणेनैवानुभवजन्यसंस्कारस्य नाशेन सकृदनुभूतस्य स्मरणोत्तरमस्मरणप्रसङ्गात् (नील. मु० पृ० ३८-३९) इति । स्मृतिर्द्विविधा यथार्था अयथार्था चेति । तत्र आद्या प्रमाजन्या। द्वितीया अप्रमाजन्या (त० सं० ) । जागरे तदुभयं संभवति । स्वप्ने तु सर्वमेव ज्ञानं स्मरणम् अयथार्थ च (त० भा०) इति। द्वयोर्लक्षणे च संस्कारसंबन्धावच्छिन्नानुभवप्रमाभ्रमनिष्ठजनकतानिरूपितजन्यते बोध्ये ( वाक्य० गु० पृ० २१ ) । अत्र वेदान्तिन आहुः स्मृतिरपि ( प्रमाजन्यापि ) प्रमाणमेव (प्रमा) (प्र० प० पृ० ४) इति । अयं भावः स्मृतेः प्रमारूपत्वेन प्रमाकरणत्वरूपप्रमाणलक्षणाक्रान्तत्वादनुभवस्यापि प्रत्यक्षादिचतुष्टयस्येव प्रमाणान्तर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org