________________
न्यायकोशः।
१०४७ त्वमिष्टमेव इति । २ योगशास्त्रज्ञास्तु अनुभवप्राप्तिपूर्वा वृत्तिः इत्याहुः । अत्र सूत्रम् अनुभूतविषयासंप्रमोषः स्मृतिः (पात० पा० १ सू०११)। सर्वाः स्मृतयः प्रमाणविपर्ययविकल्पनिद्रास्मृतीनामनुभवात् प्रभवन्ति (भोजवृत्ति० ) (भा० )। २ धर्मज्ञास्तु धर्मशास्त्रम् । अत्रार्थे स्मृतिशब्दस्य व्युत्पत्तिः स्मर्यते वेदधर्मोनेन ( करणे क्तिन् ) इति । तच्च वेदार्थानुभवजन्यं वेदार्थानुवादकं धर्मे च प्रमाणं मुनिप्रणीतं वाक्यरूपम्। यथा मनुस्मृतियाज्ञवल्क्यस्मृत्यादिरित्याहुः । तदुक्तं मनुना वेदोखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् ( मनु० अ० २ श्लो० ६ ) ( गौ० ११) इति । अत्रोक्तम् श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ( मनु० अ० २ श्लो० १०) इति । इयं स्मृतिरपि सात्त्विकराजसतामसभेदेन त्रिविधा । तत्र सात्त्विक्यो यथा वासिष्ठं चैव हारीतं व्यासं पाराशरं तथा । भारद्वाजं काश्यपं च सात्त्विक्यो मुक्तिदाः शुभाः ॥ ( पद्मपु० उत्त० अ० ४३) इति। राजस्यस्तामस्यस्तु तत्रैवान्वेषणीयाः ।
विस्तरभयादत्र न संगृहीताः। स्यन्दनम्-१ प्रस्रवणम् । तच्च संनिकृष्टदेशस्य द्रवद्रव्यस्य च संयोगानुकूल. व्यापारः (वाक्य० १ पृ० ९) । यथा स्यन्दनासमवायिकारणं
द्रवत्वम् इत्यादौ ग्रन्थे स्यन्दनशब्दस्यार्थः । अत्र सूत्रम् द्रवत्वात् स्यन्दनम् (वै० ५।२।४) इति । तदर्थश्च स्यन्दनं द्रवत्वादसमवायिकारणादुत्पद्यते। तथा हि क्षितौ पतितानामपां बिन्दूनां परस्परसंयोगेन महज्जलमवयवि स्रोतोरूपं यजायते तस्य यत् स्यन्दनं दूरसंसरणं तद्वत्वादसमवायिकारणादुत्पद्यते गुरुत्वान्निमित्तकारणात् अप्सु समवायिकारणेषु (वै० उ०५।२।४)। २ गमनत्वव्याप्यजातिमत् । यथा भ्रमणं रेचनं स्यन्दनोप्रज्वलनमेव च ( भा० प० श्लो० ७) इत्यादौ स्यन्दनशब्दस्यार्थः । ३ जलम् । ४ रथश्च इति काव्यज्ञा आहुः । ५ तिनिशवृक्षः ( तिवस)
इति भिषज आहुः ( अमरः २।४।२६)। स्याद्वादः (वादः) यत्र वादे दिगम्बराः जैनाः सर्वत्र सप्तभङ्गीनयाख्यं
न्यायमवतारयन्ति सः । स्याद्वादः सर्वथैकान्तत्यागात्किवृत्तचिद्विधेः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org