Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1068
________________ न्यायकोशः । 1 जीमूतवाहनप्रभृतयः आहुः । तत्रापि समुदायद्रव्ये स्वत्वम् इति मिताक्षराकृदादय आहुः । प्रदेशभेदे इति वङ्गदेशीय आहुः (वीरमित्रो० अ० २ पृ० ५२१ - ५५० ) । अत्राधिकं च वीरमित्रोदयजीमूतवाहनादौ दृश्यम् । [ ख ] द्रव्याणां यथेष्टक्रयविक्रयादिक्रियासु विनियोजको धर्मविशेषः । स चातिरिक्तः पदार्थः न तु यथेष्टविनियोगयोग्यत्वरूपः इति नव्याः दीधितिकारादयः आहुः (का० व्या० पृ० ६ ) । तदर्थश्च दानादिनाश्यः प्रतिग्रहजन्यः सप्तपदार्थातिरिक्तः कश्चनानिर्वाच्यः पदार्थः ( ल० म० ) इति । तत्रायमाशयः । प्रतिग्रहादिनाशोत्तरमपि स्वत्वव्यवहारात् दानादितः स्वत्वं नश्यति प्रतिग्रहादितश्च स्वत्वमुत्पद्यते । अत एव निबन्धादौ भाविन्यपि स्वत्वम् । अन्यथा प्रतिमासं प्रतिवर्षं वा देयत्वेन प्रतिश्रुतस्य धान्यादिरूपस्य भाविवेन तत्र स्वत्वोत्पत्त्यनुपपत्तेः ( लीलावतीरहस्ये चूडामणि: ) ( श्रीकृष्णतर्कालंकारः ) । अतस्तादृशप्रत्ययव्यवहारप्रामाण्यानुरोधेन स्वत्वमतिरिक्तः पदार्थः । तच्च स्वत्वं दानादितो नश्यति प्रतिग्रहादितश्च जायते । तच्च बहिरिन्द्रिययोग्यम् । स्वं पश्यामि इति प्रतीतेः । वस्तुतः स्वत्वस्यानुमितिरेव न तु साक्षात्कारः ( का० व्या० पृ० ६ ) ( नील० ) इति । अत्रेदं बोध्यम् । सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च ( मनु० १० ११५ ) इति । स्वत्वोत्पत्तौ साधारणोपायास्तु गौतमेनोक्ताः स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु इति । असाधारणोपायास्तु ब्राह्मणस्याधिकं लब्धम् क्षत्रियस्य विजितम् निर्विष्टं वैश्यशूद्रयोः ( मिता० अ० २ दायभा० ) इति । केचित्तु जीमूतवाहनादयः प्रतिग्रहो न स्वत्वजनकः । अपि तु यथेष्टविनियोगार्हताप्रयोजकः । तथा च उत्पन्नमपि स्वत्वं संप्रदानव्यापारेण ममेदम् इति ज्ञानेन ( स्वीकारेण ) यथेष्टव्यवहाराह क्रियते इत्याहुः ( वीरमित्रो० अ० २ पृ० ५४२ ) । स्वधर्म :- १ यत्किचिद्व्यक्तिवृत्तिपदार्थमात्रम् । यथा घटवृत्तिर्धर्मो घटत्वादिः । २ धर्मज्ञास्तु स्वानुरूप वेदायुक्तः अविगीत: आचारादिधर्मः । यथा श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । स्वधर्मे निधनं श्रेयः १०५० Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102