Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir
View full book text
________________
न्यायकोशः।
१०४१ द्रवत्वस्य । तथा सति द्रुतसुवर्णादिसंयोगे चूर्णादेः पिण्डीभावापत्तेः । हिमकरकादिभिः पिण्डीभावापत्तेश्च। अतः स्नेहस्यैवासाधारणकारणत्वम् । वस्तुतस्तु द्रुतजलसंयोगस्यैव पिण्डीभावहेतुत्वम् । स्नेहस्य पिण्डीभावहेतुत्वे मानाभावात् । जले द्रुतत्वविशेषणात्करकादिव्यावृत्तिः (न्या० बो० १ पृ० ६)। अत्र प्रसङ्गतः स्नेहनविधिरुच्यते । स्नेहश्चतुर्विधः प्रोक्तो घृतं तैलं वसा तथा । मज्जा च तां पिबेन्मर्त्यः किंचिदभ्युदिते रवौ ॥ स्थावरो जङ्गमश्चैव द्वियोनिः स्नेह उच्यते । तिलतैलं स्थावरेषु जङ्गमेषु घृतं वरम् ॥ द्वाभ्यां त्रिभिश्चतुर्भिर्वा यमकत्रिवृतो महान् ॥ ( भावप्र०) इति । अत्रोद्भटः अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । परोपकारनिरता मणिदीपा इवोत्तमाः ॥ इति । २ प्रेम इत्यालंकारिका वदन्ति । प्रेमरूपस्नेहश्च वत्सलरसस्य स्थायिभावः । स च रसो भरतसंमतः । तुदुक्तम् स्फुटं चमत्कारितया वत्सलं च रसं विदुः । स्थायी वत्सलता स्नेहः पुत्राद्यालम्बनं मतम् ॥ ( सा० द०
परि० ३ श्लो० २५१ ) इति । स्पन्दनम्-वायवभिभूतस्येव शरीरावयवानां कम्पनम् ( सर्व० सं० पृ०
१७० नकु० )। . स्पर्धा-पराभिभवेच्छा । यथा स्पर्धते इत्यादौ । स्पर्शः-१ ( गुणः ) [क] त्वगिन्द्रियमात्रग्रहणो योर्थः स स्पर्शः
(वै० उ० ३।१।१ ) (प्रश० पृ० १२)। स तु बायैकेन्द्रियग्राह्यः पृथिवीजलतेजोवायुवृत्तिः । अत्र विवेकः कठिनसुकुमारस्पर्शी पृथिव्या एव (भा० प० ) इति । तत्र वायुगतस्पर्शस्तु बहुविधः । तथा चोक्तम् वायव्यश्च गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः । उष्णः शीतः सुखो दुःखः स्निग्धो विशद एव च ॥ तथा खरो मृदू रूक्षो लघुर्गुरुतरोपि च ॥ ( भार० शा० अ० १८१ ) इति । कठिनस्याप्युपलक्षणमिदम् । यथोक्तम् वायोश्चापि गुणः स्पर्शः स्पर्शश्च बहुधा स्मृतः । रूक्षः शीतस्तथैवोष्णः स्निग्धश्च विशदः खरः ॥ कठिनश्चिक्वणः श्लक्ष्णः पिच्छलो दारुणो मृदुः। एवं द्वादशविस्तारो वायव्यो १७१ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102