Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1050
________________ १०३२ न्यायकोशः। पुण्यं शतकोटिप्रविस्तरम् । अनन्तरं च वक्रेभ्यो वेदास्तस्य विनिःसृताः । मीमांसा न्यायविद्याश्च प्रमाणाष्टकसंयुताः ॥ इत्यादिसृष्टिप्रकारः सविस्तरो द्रष्टव्यः । इदानीं सृष्टिक्रमः कथ्यते । प्राणिनां भोगभूतये परमेश्वरस्य सिसृक्षा जायते । सर्गादौ भगवानीश्वरः प्रयोज्यप्रयोजकवृद्धशरीरद्वयं परिगृह्य तथा व्यवहरति । ततस्तद्व्यवहाराद्वालः पूर्ववत्संकेतं गृह्णाति ( न्या० म० ४ पृ० ५)। ततो लब्धवृत्तिकादृष्टविशिष्टात्मसंयोगात् दोधूयमानेषु पवनपरमाणुषु प्रथमतः कर्मोत्पत्तिः । ततो द्वयोः पवनपरमाण्वोः संयोगः । ततो व्यणुकोत्पत्तिः। ततत्रिषु व्यणुकेषु कर्मोत्पत्तिः । ततस्तेषां संयोगः । ततस्यणुकोत्पत्तिः। एवं चतुरणुकाद्युत्पत्तिक्रमेण महावायुरुत्पदा विहायसि दोधूयमानस्तिष्ठति । ततस्तस्मिन्वायौ जलपरमाणुभ्यो व्यणुकादिक्रमेण महाजलराशिरुत्पन्नः पोप्लूयमानः तिष्ठति । ततस्तस्मिन्महोदधौ पृथिवीपरमाणुतो व्यणुकादिक्रमेण महापृथिव्युत्पद्य संहतावतिष्ठते । ततः तस्मिन्नेव जले तैजसेभ्य उत्पन्नो महातेजोराशिर्देदीप्यमानस्तिष्ठति इति । तत्र तेजःपरमाणुसहितपृथिवीपरमाणुभिरीश्वराभिध्यानादण्डमुत्पद्यते तस्मिन्ब्रह्मोत्पद्यते (त० व० १२५-१२७ ) (सि० च० ) इति । अथ प्रकारान्तरेण सृष्टिविधिरुच्यते । खण्डप्रलयानन्तरम् प्राणिनां भोगभूतये परमेश्वरस्य सिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो ब्यणुकादिक्रमेण महावायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव वायावाप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोप्लूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव सलिलनिधौ पार्थिवेभ्यः परमाणुभ्यो व्यणुकादिक्रमेण समुत्पन्ना महापृथिवी संहता घनीभूतावतिष्ठते । तदनन्तरं तस्मिन्नेव महोदधौ तैजसेभ्यः परमाणुभ्यो ब्यणुकादिक्रमेण समुत्पन्नो महास्तेजोराशिर्देदीप्यमानस्तिष्ठति । एवं समुत्पन्नेषु चतुर्यु महाभूतेषु परमेश्वरस्याभिध्यानमात्रात् ( इच्छामात्रात् न तु व्यापारान्तरात) तैजसेभ्योणुभ्यः पार्थिवादिपरमाणुसहितेभ्यो महदण्डमारभ्यते। " तस्मिंश्चतुर्वदनं सकललोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्य Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102