________________
१०३२
न्यायकोशः। पुण्यं शतकोटिप्रविस्तरम् । अनन्तरं च वक्रेभ्यो वेदास्तस्य विनिःसृताः । मीमांसा न्यायविद्याश्च प्रमाणाष्टकसंयुताः ॥ इत्यादिसृष्टिप्रकारः सविस्तरो द्रष्टव्यः । इदानीं सृष्टिक्रमः कथ्यते । प्राणिनां भोगभूतये परमेश्वरस्य सिसृक्षा जायते । सर्गादौ भगवानीश्वरः प्रयोज्यप्रयोजकवृद्धशरीरद्वयं परिगृह्य तथा व्यवहरति । ततस्तद्व्यवहाराद्वालः पूर्ववत्संकेतं गृह्णाति ( न्या० म० ४ पृ० ५)। ततो लब्धवृत्तिकादृष्टविशिष्टात्मसंयोगात् दोधूयमानेषु पवनपरमाणुषु प्रथमतः कर्मोत्पत्तिः । ततो द्वयोः पवनपरमाण्वोः संयोगः । ततो व्यणुकोत्पत्तिः। ततत्रिषु व्यणुकेषु कर्मोत्पत्तिः । ततस्तेषां संयोगः । ततस्यणुकोत्पत्तिः। एवं चतुरणुकाद्युत्पत्तिक्रमेण महावायुरुत्पदा विहायसि दोधूयमानस्तिष्ठति । ततस्तस्मिन्वायौ जलपरमाणुभ्यो व्यणुकादिक्रमेण महाजलराशिरुत्पन्नः पोप्लूयमानः तिष्ठति । ततस्तस्मिन्महोदधौ पृथिवीपरमाणुतो व्यणुकादिक्रमेण महापृथिव्युत्पद्य संहतावतिष्ठते । ततः तस्मिन्नेव जले तैजसेभ्य उत्पन्नो महातेजोराशिर्देदीप्यमानस्तिष्ठति इति । तत्र तेजःपरमाणुसहितपृथिवीपरमाणुभिरीश्वराभिध्यानादण्डमुत्पद्यते तस्मिन्ब्रह्मोत्पद्यते (त० व० १२५-१२७ ) (सि० च० ) इति । अथ प्रकारान्तरेण सृष्टिविधिरुच्यते । खण्डप्रलयानन्तरम् प्राणिनां भोगभूतये परमेश्वरस्य सिसृक्षानन्तरं सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगेभ्यो ब्यणुकादिक्रमेण महावायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव वायावाप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोप्लूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव सलिलनिधौ पार्थिवेभ्यः परमाणुभ्यो व्यणुकादिक्रमेण समुत्पन्ना महापृथिवी संहता घनीभूतावतिष्ठते । तदनन्तरं तस्मिन्नेव महोदधौ तैजसेभ्यः परमाणुभ्यो ब्यणुकादिक्रमेण समुत्पन्नो महास्तेजोराशिर्देदीप्यमानस्तिष्ठति । एवं समुत्पन्नेषु चतुर्यु महाभूतेषु परमेश्वरस्याभिध्यानमात्रात् ( इच्छामात्रात् न तु व्यापारान्तरात) तैजसेभ्योणुभ्यः पार्थिवादिपरमाणुसहितेभ्यो महदण्डमारभ्यते। " तस्मिंश्चतुर्वदनं सकललोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org