________________
न्यायकोशः। प्रजासतें नियुङ्क्ते। स च महेश्वरेण नियुक्तो ब्रह्मातिशयज्ञानवैराग्यैश्वर्यसंपन्नः सर्वप्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानवैराग्यभोगायुषः सुतान् प्रजापतीन्मानसान्मनून् देवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो वर्णानन्यानि चोच्चावचानि भूतानि सृष्ट्वा आशया( वासना )नुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैः संयोजयति ( प्रशस्त० १ पृ० ६) (प० मा० कालनि० पृ० ९३ ) ( त० व० परि० ५ पृ० १२६-१२७)। अत्र श्रुतिः ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ( ऋग्वे० पु० सू० ) इति। अत्रेदं बोध्यम् । एषा ह्यादिसृष्टिरयोनिजैव । तत्रोच्चा धर्मविशेषसहकृतेभ्योणुभ्योवचा चाधर्मविशेषसहकृतेभ्यो जायते । ब्रह्मा अयोनिजोतिशयितधर्मविशेषसहकृतेभ्योणुभ्यो जायते ईश्वराभिध्यानमात्रात् (प्रशस्त टिप्प० पृ० १९) इति। महाप्रलयानन्तरं तु न तादृशी सृष्टिः स्यात् । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्यादृष्टस्यापायात्। सर्वभोक्रपवृत्तौ (मुक्तौ ) प्रयोजनाभावाच्च । न हि बीजप्रयोजनाभ्यां विना कार्योत्पत्तिः (५० मा० कालनिरू० पृ० ९३ ) (त० व० परि० ५ पृ० १२५-१२७ ) इति । अत्रेदं चिन्त्यम् । केचित् वेदान्तिनः जलोत्पत्तेः पूर्वमेव तेज उत्पद्यते इत्याचक्षते ( त० व० )। अत्र क्यं ब्रूमः । यदाचक्षते तत्तु युक्तमेव । ज्वलने सति जलस्य नाशः इति भाष्यादौ प्रलयप्रक्रमे प्रतिपादनात् । अतः तेजःसृष्ट्यनन्तरमेव जलसृष्टियुक्ता । अन्यथा तेजोनाशानन्तरमेव जलनाशः इति प्रतिपाद्येत । परं तु तथा न प्रतिपाद्यते. इति जलसृष्टेः पूर्वमेव तेजःसृष्टियुक्ता इति । तथा च श्रुतिः तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अनेरापः। अद्भ्यः पृथिवी । पृथिव्या ओषधयः ।
ओषधीभ्योन्नम् । अन्नात्पुरुषः ( तैत्तिरीय-उप० २।१ ) इति । अत्रेदं विज्ञेयम । प्रथमतो जगदुत्पत्तौ परमाण्वादयोवयवाः समवायिकारणम् । परमाणुद्वयसंयोगादिकमसमवायिकारणम् । ईश्वरतज्ज्ञानेच्छाकृतिकालकर्मादृष्टादि निमित्तकारणम् इति वैशेषिकमतम् ( सि० च० ) इति । एवमन्यत्रापि भावकार्योत्पत्तौ कारणत्रयमूह्यम् । २ नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यावस्थम् । ब्रह्मणस्तथाविधस्थूलभावश्च १३० न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org