Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1051
________________ न्यायकोशः। प्रजासतें नियुङ्क्ते। स च महेश्वरेण नियुक्तो ब्रह्मातिशयज्ञानवैराग्यैश्वर्यसंपन्नः सर्वप्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानवैराग्यभोगायुषः सुतान् प्रजापतीन्मानसान्मनून् देवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो वर्णानन्यानि चोच्चावचानि भूतानि सृष्ट्वा आशया( वासना )नुरूपैर्धर्मज्ञानवैराग्यैश्वर्यैः संयोजयति ( प्रशस्त० १ पृ० ६) (प० मा० कालनि० पृ० ९३ ) ( त० व० परि० ५ पृ० १२६-१२७)। अत्र श्रुतिः ब्राह्मणोस्य मुखमासीत् बाहू राजन्यः कृतः। ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ( ऋग्वे० पु० सू० ) इति। अत्रेदं बोध्यम् । एषा ह्यादिसृष्टिरयोनिजैव । तत्रोच्चा धर्मविशेषसहकृतेभ्योणुभ्योवचा चाधर्मविशेषसहकृतेभ्यो जायते । ब्रह्मा अयोनिजोतिशयितधर्मविशेषसहकृतेभ्योणुभ्यो जायते ईश्वराभिध्यानमात्रात् (प्रशस्त टिप्प० पृ० १९) इति। महाप्रलयानन्तरं तु न तादृशी सृष्टिः स्यात् । सर्वमुक्तौ सर्वोत्पत्तिनिमित्तस्यादृष्टस्यापायात्। सर्वभोक्रपवृत्तौ (मुक्तौ ) प्रयोजनाभावाच्च । न हि बीजप्रयोजनाभ्यां विना कार्योत्पत्तिः (५० मा० कालनिरू० पृ० ९३ ) (त० व० परि० ५ पृ० १२५-१२७ ) इति । अत्रेदं चिन्त्यम् । केचित् वेदान्तिनः जलोत्पत्तेः पूर्वमेव तेज उत्पद्यते इत्याचक्षते ( त० व० )। अत्र क्यं ब्रूमः । यदाचक्षते तत्तु युक्तमेव । ज्वलने सति जलस्य नाशः इति भाष्यादौ प्रलयप्रक्रमे प्रतिपादनात् । अतः तेजःसृष्ट्यनन्तरमेव जलसृष्टियुक्ता । अन्यथा तेजोनाशानन्तरमेव जलनाशः इति प्रतिपाद्येत । परं तु तथा न प्रतिपाद्यते. इति जलसृष्टेः पूर्वमेव तेजःसृष्टियुक्ता इति । तथा च श्रुतिः तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशाद्वायुः । वायोरग्निः । अनेरापः। अद्भ्यः पृथिवी । पृथिव्या ओषधयः । ओषधीभ्योन्नम् । अन्नात्पुरुषः ( तैत्तिरीय-उप० २।१ ) इति । अत्रेदं विज्ञेयम । प्रथमतो जगदुत्पत्तौ परमाण्वादयोवयवाः समवायिकारणम् । परमाणुद्वयसंयोगादिकमसमवायिकारणम् । ईश्वरतज्ज्ञानेच्छाकृतिकालकर्मादृष्टादि निमित्तकारणम् इति वैशेषिकमतम् ( सि० च० ) इति । एवमन्यत्रापि भावकार्योत्पत्तौ कारणत्रयमूह्यम् । २ नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यावस्थम् । ब्रह्मणस्तथाविधस्थूलभावश्च १३० न्या० को Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102