________________
न्यायकोशः ।
1
( वाक्य० २ पृ० १६)। साध्यतावच्छेदकनिष्ठ हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वादिरूपो वा (ग० २ हेत्वा० सा० ) । असाधारणस्थले साध्यव्यापकीभूताभावप्रतियोगित्वम् । अनुपसंहारिस्थले तु अत्यन्ताभावाप्रतियोगिसाध्यकत्वादि व्यभिचारः इति । सव्यभिचारत्वं च साधारण असाधारण अनुपसंहारि एतदन्यतमत्वम् ( मु० २ पृ० १५९ ) ( नील० २ पृ० २५ ) ( न्या० बो० २ पृ० १७ ) । व्यभिचार एकत्राव्यवस्था । सह व्यभिचारेण वर्तत इति सव्यभिचारः । निदर्शनम् नित्यः शब्दः अस्पर्शत्वात् । स्पर्शवान् कुम्भः अनित्यो दृष्टः न च तथा स्पर्शवान् शब्दः । तस्मादस्पर्शत्वान्नित्यः शब्द इति । दृष्टान्ते स्पर्शवत्त्वमनित्यत्वं च धर्मों न साध्यसाधनभूतौ दृश्येते । स्पर्शवांचाणुर्नित्यश्चेति । आत्मादौ च दृष्टान्ते उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः इति । अस्पर्शत्वादिति हेतुर्नित्यत्वं व्यभिचरति अस्पर्शा बुद्धिरनित्या चेति । एवं द्विविधेपि दृष्टान्ते व्यभिचारात् साध्यसाधनभावो नास्तीति लक्षणाभावादहेतुरिति (गौ० वात्स्या ० १/२/५ ) । सव्यभिचारपदं साधारणमात्रे प्रयुञ्जतीदानींतनाः ( दीधि ० सव्य ० ) । शिष्टं विभागादिकं तु अनैका - न्तिकशब्द व्याख्यानावसरे संपादितम् इति विरम्यते । सव्यभिचारत्वं च हेतुदोषः । तच्च साध्यसंदेहजनको भयको ट्युपस्थापकतावच्छेदकरूपवत्त्वम् । अत्रायमर्थः । उभयकोटी साध्यतदभावौ । तदुपस्थापकतावच्छेदकं च रूपं साधारणत्वादित्रितयम् । तज्ज्ञाने सति पक्षः साध्यवान्न वा इति संशय उदेति इति । अथ वा यथाकथंचित् कोटिद्वयोपस्थितिः ( साध्यतद्भाव एतद्वयोपस्थितिः) स्मृत्यनुभवसाधारणी संदेहजननी । नियामकं तु साधारण्यादिविशिष्टधर्मवत्ताज्ञानम् । अत एव धारावाही संदेहः इति मते धर्मितावच्छेदकविशिष्टे धर्मिणि यद्रूपविशिष्ट (धर्मवत्ता) ज्ञानं साध्यसंदेहजनकम् तद्रूपवत्त्वम् । पर्यवसितार्थस्तु तद्धर्मपर्याप्तधर्मितावच्छेदकताकयत्किंचित्संशयनिरूपितायां जनकतायामवच्छेदकीभूता या तद्धर्मनिष्ठधर्मितावच्छेदकता निरूपकप्रकारता तन्निरूपितावच्छेदकतापर्यात्यधिकरणधर्मवत्त्वम् (ग० सव्य ० ) इति । इदं च साध्यतदभावसाहचर्यावच्छिन्नकारणतामतमङ्गीकृत्योक्तम् इति विज्ञेयम् । यद्वा यद्रूप
९८०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org