________________
न्यायकोशः। विशिष्टत्वेन गृहीतस्य धर्मस्य धर्मिवृत्तिताज्ञानं साध्यसंदेहजनकम् तद्वत्त्वम् इति । पर्यवसितार्थस्तु यत्किचित्संशयजनकतावच्छेदकवैशिष्ट्यघटकविशेष्यतानिरूपितप्रकारतापर्यात्यधिकरणधर्मवत्त्वम् (ग० सव्य० ) इति । इदं च कोटिद्वयसहचरितत्वादिना ज्ञातस्योर्ध्वत्वादेरूलत्वत्वादिना धर्मिणि ज्ञानमेव संदेहजनकम् न तु तदानीं साहचर्यादिज्ञानमपेक्ष्यते इति मतमभिप्रेत्योक्तम् इति विज्ञेयम् ( दीधि० २ सव्य० पृ० १९० )। तच्च सव्यभिचारित्वं साधारणत्वादित्रितयम् ( म० प्र० २ पृ० २५) (चि० २ सव्य० पृ० ८५)। अत्र त्रितयं तु साधारणत्वम् असाधारणत्वम् अनुपसंहारित्वं चेति ज्ञेयम् । अथ वा विरुद्धान्यपक्षवृत्तित्वे सत्यनुमितिविरोधिसंबन्धाव्यावृत्तिः सव्यभिचारत्वम् ( चि० २ सव्य० पृ० ८५ )। यथा शब्दो नित्यः शब्दत्वात् इत्यादौ साध्यव्यापकीभूताभावप्रतियोगित्वरूपासाधारण्यादि । विरुद्धान्येत्यादिदलद्वयस्य निष्कृष्टार्थस्तु यद्धर्मिवृत्तित्वं हेतोञ्जयते तत्रैवानुमितिविरोधि यद्रूपं तद्वत्त्वम् इति ( दीधि० २ सव्य० पृ० १९२ ) । यद्वा साध्यवन्मात्रवृत्त्यन्यत्वे सति साध्याभाववन्मात्रवृत्त्यन्यत्वम् ( चि० २ सव्य० पृ० ८६ )। केचित्तु साध्यसंदेहजनककोटिद्वयोपस्थापकपक्षधर्मताज्ञानविषयत्वे सति हेत्वभिमतत्वं सव्यभिचारत्वम् इत्याशशङ्किरे । तदर्थस्तु साध्यसंदेह‘जनककोटिद्वयोपस्थितिजनकपक्षधर्मताज्ञानविषयत्वम् । धर्मिणि यद्रूपावच्छिन्नवत्ताज्ञानं साध्यसंदेहजनकम् तद्रूपावच्छिन्नत्वम् । तच्च रूपं साधारणत्वादि ( दीधि० २ सव्य० पृ० १८५ ) इति । साधारणः अन्वयेन असाधारणः व्यतिरेकेण अनुपसंहारी पक्ष एवोभयसाहचर्येण कोटिद्वयोपस्थापकः ( चि० सव्य० पृ० ८४ )। दीधितिकृतस्तु विशिष्टसाध्यसाधनग्रहाविरोधिनो ज्ञानस्य विषयतया व्याप्तिग्रहविरोधितावच्छेदकं रूपम् । तच्च रूपं साधारणत्वम् असाधारणत्वम् अनुपसंहारित्वं च इति प्राहुः । व्याप्तिश्चान्वयतो व्यतिरेकतश्च नानारूपा । प्रातिस्विकरूपेणोपादाय तावदरगाही ग्रहो वाच्यः । साध्यसाधनयोरप्रसिद्धरसिद्धिभेदस्य वारणाय अविरोधिनः इत्यन्तम् । व्याप्तिग्रहप्रतिबन्धलक्षणैकप्रयोजनकत्वेन साधारणादीनामेकहेत्वाभासत्वम् । साधारणेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org