________________
न्यायकोशः।
व्यापकत्वस्याव्यभिचारितत्वस्य वा असाधारणेन सामानाधिकरण्यस्य अनुपसंहारिणा च व्यतिरेकव्याप्तेफेहस्य प्रतिबन्धात् साधारणादौ लक्षणसमन्वयः ( दीधि० २ पृ० २०३ )। सव्यम्-१ वामभागः ( अमरः )। यथा यत्सव्यं पाणिं पादौ प्रोक्षति ____ शिरश्चक्षुषी श्रोत्रे हृदयमालम्ब्य ( श्रुतिः ) इत्यादौ वामशब्दस्यार्थः । - २ प्रतिकूलम् । ३ विष्णुः ( शब्दमा० )। सशूकः-आस्तिकः ( मिताक्षरा अ० २ श्लो० ११२ )। सह—(अव्ययम् ) १ [क] साहित्यम् । तच्च स्वान्वयितत्तत्कर्तृत्वादि
कारकावच्छिन्नायाः समानकर्तृकायाः समभिव्याहृतक्रियायाः समानकालीनत्वम् । यथा पुत्रेण सहागतः सूपेन सार्धं भुक्तः चक्रेण साकं दण्डेन जनितः पुत्रेण समं मित्राय दानम् इत्यादौ सहाद्यव्ययार्थः साहित्यम् । पुत्रेणेत्यत्र सहाथैकदेशे कर्तृत्वादिकारके स्वप्रकृत्यर्थस्याधेयत्वं तृतीयया बोध्यते । तेन पुत्रवृत्तिकर्तृताकगतिकालीनगतिकर्तृतावान् इत्याकारो बोधः। सूपेनेत्यत्र सूपनिष्ठकर्मताकभोजनकालीनभोजनकर्मतावान् ओदनः इति बोधः । चक्रेणेत्यत्र चक्रनिष्ठकरणताकोत्पत्तिकालीनदण्डनिष्ठकरणताकोत्पत्तिमान् घटः इति बोधः । पुत्रेण सममित्यत्र पुत्रसंप्रदानताकदानकालीनं मित्रसंप्रदानताकं दानम् इत्याकारो बोधः । अत्रेदं विज्ञेयम् । पटः पटत्वेन सह भासते इत्यादी पटत्वनिष्ठविषयतायाः समानकालीनत्वमिव समानप्रतियोगिकत्वमपि सहशब्दार्थोङ्गीकर्तव्यः । विभिन्नज्ञानीयविषयतायां तादृशाप्रयोगात् (श० प्र० श्लो० ९४ टी० पृ० १२० ) इति । इदं च बोध्यम्। तुल्यवदेकक्रियान्वयित्वं साहित्यम् इति प्रवादस्यापि एककारकान्वयित्वेन तुल्ययोरेकजातीयक्रिययोरन्वयित्वं समानकालीनत्वम् इत्यत्र तात्पर्यम् ( श० प्र० श्लो० ९४ टी० पृ० ११९)। भारमनुद्वहन्तं पुत्रमनूद्वहन्त्यामपि गर्दभ्यां एकेनापि सुपुत्रेण सिंही स्वपिति निर्भयम् । सहैव दशभिः पुत्रैर्भार वहति गर्दभी ॥ इत्यादौ सह वर्तमाना इत्यध्याहारात् वर्तमानत्वक्रियामादायैव साहित्यबोधः इति वदन्ति (ग० व्यु० का० ३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org