________________
न्यायकोशः ।
इति । ( ४ ) जातिविकल्पको यथा गौः इति । ( ५ ) विशेषविकल्पको यथा विशिष्टः परमाणुः इति । ( ६ ) समवायविकल्पको यथा पटसमवायिनस्तन्तवः इति । ( ७ ) नामविकल्पको यथा देवदत्तः इति । (८) अभावविकल्पको यथा घटाभाववद्भूतलम् इति इत्याहु: ( प्र० प० पृ० ११ ) [ घ ] मायावादिवेदान्तिनस्तु ज्ञातृज्ञेयभेदादिसहितं ज्ञानं सबिकल्पम् इत्याहुः । [ङ ] योगशास्त्रज्ञास्तु संप्रज्ञाताख्यः समाधिविशेष इत्याहु: । अत्र सौगताः कीर्तिदिङागादयो नास्तिकास्तु सविकल्पकं न प्रत्यक्षम् न च प्रमाणम् । तस्य घटत्वादिरूपाली कोपरक्तत्वाद्वन्ध्यापुत्रज्ञानवत् । निर्विकल्पकं तु स्वलक्षणवस्तू पर क्तत्वात्स्यादेव प्रत्यक्षम् प्रमाणं च इत्याहुः (वै० उ० ८|१|२ ) ( सि० च० १ पृ० २२ ) । तेषां सौगतानामयमाशयः । सविकल्पकं हि न प्रमाणम् । तथा हि । अभिलापसंसर्गयोग्य प्रतिभासं हि तत् । न ह्यभिलापेन नाम्ना संभवत्यर्थस्य संबन्धः । येन घटः इति पटः इति वा नामानुरञ्जितः प्रत्ययः स्यात् । न च जात्यादि परमार्थसत् । येन तद्वैशिष्ट्यं विषयेषु इन्द्रियेण गृह्येत । न च सतः स्वलक्षणस्यासता संबन्धः संभवति । न चासदिन्द्रियगोचरः । तस्मात् इन्द्रियेणालोचनं जन्यते । आलोचनमहिना च सविकल्पकमुत्पद्यमानं तत्रार्थे प्रवर्तयत् प्रत्यक्षम् इति प्रमाणम् इति चोच्यते (वै० उ० ८।१।२ पृ० ५८३ ) इति । सविचार : - ( समाधिः ) यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषयमालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्तते तदा सविचारः ( सर्व० सं० पृ० ३५७ पात ० ) ।
1
सवितर्कः - ( समाधिः ) यदा पृथिव्यादीनि स्थूलानि विषयत्वेनादाय पूर्वापरानुसंधानेन शब्दार्थोल्लेख्यसंभेदेन च भावना प्रवर्तते स समाधिः सवितर्कः ( सर्व० सं० पृ० ३५६ पात० ) । सव्यभिचारः—–( हेत्वाभासः दुष्टहेतुः ) अनैकान्तिकः सव्यभिचारः ( गौ० १/२/५ ) । अत्र व्युत्पत्तिः व्यभिचारेण सहितः सव्यभिचारः इति । साधारणस्थले व्यभिचारश्च हेतुनिष्ठसाध्याभाववद्वृत्तित्वादिरूपः
Jain Education International
For Personal & Private Use Only
९७९
www.jainelibrary.org