________________
૨૭૮
न्यायकोशः। व्यु० पृ० ९६ ) । [ख] प्राश्चस्तु व्यापकत्वावच्छिन्नमित्याहुः (दि. १ पृ० १७९ )। अत्रेदमवधेयम् । योगसिद्ध्यधिकरणे हि यः पुत्रकामो यः पशुकामः ( श्रुतिः ) इत्यादिना यज्ञक्रतूनुपक्रम्य एकस्मै वा कामायान्ये यज्ञक्रतव आह्रियन्ते सर्वेभ्यो दर्शपूर्णमासौ इत्यानातम् । तत्र सर्वेभ्यो दर्शपूर्णमासौ ( कर्तव्यौ ) इत्यादौ सर्वान्तर्गतघटोद्देशेन दर्शपूर्णमासाद्यसंभवेन सर्वशब्दस्य संकोचः प्रकृतनिरपेक्षपुत्रादितत्तत्फलपरत्वरूपः कार्यः इति । [ग] बुद्धिविषयो यावत्त्वावच्छिन्नः समूहः सर्वपदार्थः इति शाब्दिका वदन्ति । [घ ] संपूर्णम् सकलं च इति काव्यज्ञा आहुः। २ वेदान्तिनस्तु विष्णुः इत्याहुः । तत्रोक्तम् असतश्च सतश्चैव सर्वस्य प्रभवाप्ययौ । सर्वस्य सर्वदा ज्ञाना
त्सर्वमेतं प्रचक्षते ॥ ( विष्णुपु० ) इति । सविकल्पकम्—(प्रत्यक्षम् ) [क] विशिष्टग्रहणम् । [ख] वैशिष्ट्या
वगाहि सप्रकारकं वा ज्ञानम् ( न्या० म० पृ० ४ ) (त० सं० )। यथा डित्थोयम् ब्राह्मणोयम् श्यामोयम् पाचकोयम् इति प्रत्यक्षज्ञानम् (त० सं०)। अत्र वैशिष्ट्यावगाहि इत्यस्य नामजात्यादिविशेषणविशेष्यसंबन्धावगाहि ज्ञानमित्यर्थः (त० दी० १ पृ० १८ ) (त० को०)। सप्रकारकमित्यस्य किंचिन्निष्ठप्रकारताशालि ज्ञानम् इत्यर्थः ( त० प्र० १) । सविकल्पकमित्यत्र विकल्पः प्रकारता । तथा च तल्लक्षणं प्रकारतानिरूपकज्ञानत्वम् इति । अयं भावः । विषयताया ज्ञाननिरूपितत्वाज्ज्ञानस्य च विषयतानिरूपकत्वेन प्रकारतानिरूपकज्ञानत्वं तल्लक्षणम् । एवम् विशेष्यतानिरूपकज्ञानत्वम् संसर्गतानिरूपकज्ञानत्वम् इत्यपि लक्षणानि संभवन्ति । निर्विकल्पके तु अतिरिक्ता तुरीया विषयता स्वीक्रियते । त्रिविधविषयतामध्य एकापि तत्र नास्ति (न्या० बो० १ पृ० ११ ) ( वाक्य० १ पृ० १२ ) (नील० १ पृ० १८ )। [ग] माध्ववेदान्तिनस्तु विशिष्टाकारगोचरं प्रत्यक्षम् । तदष्टविधम् तत्र ( १ ) द्रव्यविकल्पको यथा दण्डी इति । ( १ ) गुणविकल्पको यथा शुक्लः इति । ( ३ ) क्रियाविकल्पको यथा गच्छति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org