________________
न्यायकोशः।
- ९७७ बोधविषयकः संकेतः (ग० शक्ति० पृ० ७३ )। त्यद् तद् यद् एतद् इदम् अदस् इत्यादयः त्यदादयः । अत्र च सर्वनामपदेन सर्वनामसंज्ञायुताः त्यत्तदादयः शब्दा गृह्यन्ते। अतो न काप्यनुपपत्तिः । सर्वनामसंज्ञाविधायकसूत्रं च सर्वादीनि सर्वनामानि ( पाणि० १।१।२७) इति । [ख] वक्तबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नम् (ग० शक्ति० पृ० ६५)। यथा सोयं वो विदधातु वाञ्छितफलं त्रैलोक्यनाथो हरिः
( हनु० नाट० श्लो० १ ) इत्यादौ तच्छब्दार्थः । सर्वपापहरा—एकादशी द्वादशी च रात्रिशेषे त्रयोदशी । त्रिभिर्मिश्रा
तिथिः प्रोक्ता सर्वपापहरा स्मृता ॥ (पु० चि० पृ० १८२ )। सर्वपृष्ठः-षट्सु अहःसु क्रमेण रथंतरम् बृहद्वैरूपम् इत्यादिभिः षभिः
सामभिः पृष्ठस्तोत्रं निष्पादितम् । तानि सर्वाणि पृष्ठसामानि यस्मिन्विश्व
जिति सोयं सर्वपृष्ठः ( जै० न्या० अ० १० पा० ६ अधि० ५ )। सर्वमावाधिष्ठातृत्वम्-सर्वेषां व्यवसायाव्यवसायात्मकानां गुणपरिणाम
रूपाणां भावानां स्वामिवदाक्रमणम् ( सर्व० सं० पृ० ३४५ पात० )। सर्वम्-१ [क] स्वार्थान्वयितावच्छेदकधर्मव्यापकतादृशधर्मावच्छिन्नान्वयित्तावच्छेदकावच्छिन्नव्याप्यपर्याप्तिकधर्मावच्छिन्नम् । यथा सर्वे घटा रूपवन्तः इत्यादौ सर्वपदार्थः (ग० शक्ति० पृ० ९६)। सर्वपदप्रवृत्तिनिमित्तं च उद्देश्यतावच्छेदकव्यापकविधेयव्याप्यपर्याप्तिको धर्मः। तथाविधश्च धर्मः सर्वे घटा रूपवन्तः इत्यादौ घटनिष्ठयावत्त्वमेव । तस्य व्यासज्यवृत्तितया तत्पर्याप्तेर्घटत्वव्यापकत्वात् रूपादिव्याप्यत्वात् । शब्दाभ्रूटत्वादिव्यापक रूपादिव्याप्यत्वलाभे तयोरपि व्याप्यव्यापकभावोर्थाल्लभ्यत इति । कचित् अंशेषत्वादि कचित् यावत्त्ववदनेकत्वं च प्रवृत्तिनिमित्तम् (ग० शक्ति० पृ० ९३ )। अत्र च सर्वशब्दः स्वसमभिव्याहृतपदार्थतावच्छेदकव्यापकत्वं तादृशपदार्थान्तरे बोधयति इति नियमः । एवं च सर्वे घटा रूपवन्तः इति वाक्यात् घटत्वव्यापकं रूपवत्त्वम् इति शाब्दबोधो जन्यत इति बोध्यम् ( दि० ४ पृ० १७९)। अत्र अन्वयित्वं चोद्देश्यविधेयभावविशेष्यविशेषणभावसाधारणम् (ग० १२३ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org