Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1041
________________ न्यायकोशः । १०२३ सु - ( अव्ययम् ) १ प्रशंसा । यथा २ अवधिः । ३ स्थितिः। ४ अण्डकोश: ( मेदि ० ) । यथा सीनि पुष्कलको हतः इत्यादौ सीमनशब्दस्यार्थः (सि० कौ० सुब० ) । सुरूप इत्यादौ सुशब्दस्यार्थः । २ अनुमतिः । यथा सुकृतम् इत्यादौ सुशब्दार्थः । ३ पूजा । यथा सुसाधुः इत्यादौ सुसंस्तुतम् इत्यादौ च सुशब्दार्थः । ४ भृशम् ( अतिशय: ) । यथा सुतप्तः इत्यादौ सुशब्दस्यार्थः । ५ कृच्छ्रम् । यथा सुदुष्करम् इत्यादौ सुशब्दार्थः । ६ शुभम् । यथा सुगन्धः इत्यादौ सुशब्दस्यार्थः ( गण० ) । ७ अनायास: ( मेदि ० ) । यथा सुलभ इत्यादौ सुशब्दार्थः । ८ समृद्धिः । यथा सुभिक्षम् इत्यादौ सुशब्दार्थः । 1 सुखम् – १ ( गुणः ) [क] धर्ममात्रासाधारणकारणकगुणः ( सि० च० गणनि० ० पृ० ३५ ) ( त० कौ० ) । सुखं तु जगतामेव काम्यं धर्मेण जन्यते । तथा च धर्मत्वेन सुखत्वेन कार्यकारणभाव: ( भा० प० गु० लो० १४६ ) । अयं च धर्मसुखयोः सामान्य कार्यकारणभावः प्राचां मतेनोक्तः । नवीनमते तु नित्यं विज्ञानमानन्दं ब्रह्म इति श्रुत्या भगवति नित्यसुखसिद्धौ धर्मस्य कार्यतावच्छेदकं जन्यसुखत्वम् सुखत्वावान्तरजाति इति बोध्यम् ( दि० गु० पृ० २२० ) । सुखस्य लक्षणं. तु सुख्यहम् इत्याद्यनुव्यवसायगम्यसुखत्वं जातिविशेषः ( त० दी० ) । यद्वा काम्यभावत्वम् । अथ वा इतरेच्छानधीनेच्छाविषयत्वे सति भावत्वम् ( न्या० बो० ) । दुःखाभावस्य काम्यत्वेपि स्वतः पुरुषार्थत्वेपि च तस्य भावत्वाभावान्नातिव्याप्तिः । ख ] इतरेच्छानधीनेच्छाविषयीभूतो गुणः । सुखेच्छा सुखत्वप्रकारकज्ञानेनैव जन्यते । नेष्टसाधनत्वज्ञानेनापि । तथा च उपायेच्छाया इष्टसाधनत्वाविषयकज्ञानेनापि जन्यत्वेन तादृशज्ञानजन्योपायेच्छाविषयत्वेपि इतरेच्छानधीनेच्छाविषयत्वाभावेन नोपायेतिव्याप्तिः । अत एव सुखानन्तरमिष्टान्तरस्याभावात् सुखस्य स्वतः पुरुषार्थत्वमुपपद्यते ( मु० गु० पृ० २२१ ) इति । अत्र मतभेदः । सुखं चात्मधर्मः इति नैयायिका आहुः । तच्च चित्त Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102