Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1045
________________ न्यायकोशः । १०२७ 1 मुख्योक्ता न तस्यास्त्वितरे समे ( मनु० टी० कुल्लू० अ० ११ लो० ९० ) इति । पैष्टी तण्डुलपिष्टसाध्या अन्नविकार : ( मिता० ) । तदन्यन्मद्यम् । अत्र त्रैवर्णिकानामुत्पत्तिप्रभृति पैटीप्रतिषेधः । ब्राह्मणस्य तु मद्यमात्र निषेधोप्युत्पत्तिप्रभृत्येव । राजन्यवैश्ययोस्तु न कदाचिदपि गौड्यादिमद्यप्रतिषेधः । शूद्रस्य तु सुराप्रतिषेधः । नापि मद्यमात्रप्रतिषेधः ( मिताक्ष अ० ३ श्लो० २५३ पृ० ८१ ) ( मनु०. अ० ११ श्लो० ९३ कुहूक० ) । कामतः सकृत्सुरापानेपि प्रायश्चित्तं तु सुरां पीत्वा द्विजो मोहात् ( रागमूढतया ) अग्निवर्णां सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः ॥ ( मनु० अ० ११ श्लो० ९० ) इति । अकामतः जलादिबुद्ध्या सुरापाने तु द्वादशवार्षिकं ब्रह्महत्याव्रताचरणम् । छर्दनानन्तरं तु त्रैवर्षिकं पिण्याकादिभक्षणं प्रायश्चित्तम् । केवलतालुमात्रसुरासंयोगे तु वर्षपर्यन्तं सकृत्पिण्या कादिभक्षणं प्रायश्चित्तं बोध्यम् इति । मत्या मद्यपाने गौडीमाध्योरज्ञानतः पाने च कृच्छ्रातिकृच्छ्रसहिनः पुनः संस्कारः । अकामतो मुख्यसुरापाने तु वर्षपर्यन्तं प्रतिरात्रं सकृत् पिण्याकादिभक्षणम् तप्तकृच्छ्रपूर्वकं पुनरुपनयनादि च ज्ञेयम् ( याज्ञ० अ० ३ श्लो० २५३-२५५ ) ( मनु० अ० ११ श्लो० ९२ ) । 1 सुवर्णम् - १ ( आकरजं तेजः ) पार्थिवभागसंयुक्तो द्रवद्रव्यविशेषः । यथा सुवर्णाङ्गुलीयकम् इत्यादौ सुवर्णशब्दार्थः । सुवर्णस्य तैजसत्वं यथा पीतिमगुरुत्वाश्रयस्यात्यन्ताग्निसंयोगेपि पूर्वरूपापरावृत्तिदर्शनात् पूर्वरूपपरावृत्तिप्रतिबन्धकं विजातीयं द्रवद्रव्यं कल्प्यते । तथा ह्यनुमानम् असंयोगिपीतिमगुरुत्वाश्रयः विजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तः अत्यन्ताग्निसंयोगे सत्यपि पूर्वरूपविजातीयरूपानधिकरणपार्थिवत्वात् जलमध्यस्थपीतपटवत् ( मु० १ तेजो० पृ० ८१ ) इति । अत्रोक्तम् पीतिमा च गुरुत्वं च दाहे यस्य च रक्तता । तस्य लोकप्रसिद्धस्य स्वर्णत्वं केन वार्यते । अनुच्छिन्नद्रवत्वं तु वस्तु यत्विह भासते । सुवर्ण व्यवहारोयं शास्त्र प्रवर्तते । वस्तुभेदे प्रसिद्धेपि शब्दसाम्यं प्रवर्तते । रसः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102