________________
न्यायकोशः ।
१०२७
1
मुख्योक्ता न तस्यास्त्वितरे समे ( मनु० टी० कुल्लू० अ० ११ लो० ९० ) इति । पैष्टी तण्डुलपिष्टसाध्या अन्नविकार : ( मिता० ) । तदन्यन्मद्यम् । अत्र त्रैवर्णिकानामुत्पत्तिप्रभृति पैटीप्रतिषेधः । ब्राह्मणस्य तु मद्यमात्र निषेधोप्युत्पत्तिप्रभृत्येव । राजन्यवैश्ययोस्तु न कदाचिदपि गौड्यादिमद्यप्रतिषेधः । शूद्रस्य तु सुराप्रतिषेधः । नापि मद्यमात्रप्रतिषेधः ( मिताक्ष अ० ३ श्लो० २५३ पृ० ८१ ) ( मनु०. अ० ११ श्लो० ९३ कुहूक० ) । कामतः सकृत्सुरापानेपि प्रायश्चित्तं तु सुरां पीत्वा द्विजो मोहात् ( रागमूढतया ) अग्निवर्णां सुरां पिबेत् । तया स काये निर्दग्धे मुच्यते किल्बिषात्ततः ॥ ( मनु० अ० ११ श्लो० ९० ) इति । अकामतः जलादिबुद्ध्या सुरापाने तु द्वादशवार्षिकं ब्रह्महत्याव्रताचरणम् । छर्दनानन्तरं तु त्रैवर्षिकं पिण्याकादिभक्षणं प्रायश्चित्तम् । केवलतालुमात्रसुरासंयोगे तु वर्षपर्यन्तं सकृत्पिण्या कादिभक्षणं प्रायश्चित्तं बोध्यम् इति । मत्या मद्यपाने गौडीमाध्योरज्ञानतः पाने च कृच्छ्रातिकृच्छ्रसहिनः पुनः संस्कारः । अकामतो मुख्यसुरापाने तु वर्षपर्यन्तं प्रतिरात्रं सकृत् पिण्याकादिभक्षणम् तप्तकृच्छ्रपूर्वकं पुनरुपनयनादि च ज्ञेयम् ( याज्ञ० अ० ३ श्लो० २५३-२५५ ) ( मनु० अ० ११ श्लो० ९२ ) ।
1
सुवर्णम् - १ ( आकरजं तेजः ) पार्थिवभागसंयुक्तो द्रवद्रव्यविशेषः । यथा सुवर्णाङ्गुलीयकम् इत्यादौ सुवर्णशब्दार्थः । सुवर्णस्य तैजसत्वं यथा पीतिमगुरुत्वाश्रयस्यात्यन्ताग्निसंयोगेपि पूर्वरूपापरावृत्तिदर्शनात् पूर्वरूपपरावृत्तिप्रतिबन्धकं विजातीयं द्रवद्रव्यं कल्प्यते । तथा ह्यनुमानम् असंयोगिपीतिमगुरुत्वाश्रयः विजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तः अत्यन्ताग्निसंयोगे सत्यपि पूर्वरूपविजातीयरूपानधिकरणपार्थिवत्वात् जलमध्यस्थपीतपटवत् ( मु० १ तेजो० पृ० ८१ ) इति । अत्रोक्तम् पीतिमा च गुरुत्वं च दाहे यस्य च रक्तता । तस्य लोकप्रसिद्धस्य स्वर्णत्वं केन वार्यते । अनुच्छिन्नद्रवत्वं तु वस्तु यत्विह भासते । सुवर्ण व्यवहारोयं शास्त्र प्रवर्तते । वस्तुभेदे प्रसिद्धेपि शब्दसाम्यं प्रवर्तते । रसः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org