________________
१०२६
न्यायकोशः। सु अतिशयेथे द्विवचनविभज्योपपदे तरबीयसुनौ ( पाणि० ५।३।५७ ) इत्यादिना तरप आम् इति । सुप्- (विभक्तिः)[क] प्रकृत्यर्थधर्मिकस्वार्थसंख्यान्वयबोधिका विभक्तयः
सुप उच्यन्ते । यथा घटोस्ति इत्यादौ घटपदोत्तरं सुविभक्तिः । तिङस्तु स्वार्थभावनाद्यन्वयिन्येव स्वार्थसंख्यामवबोधयन्ति न तु स्वप्रकृत्यर्थे इति तासां व्युदासः ( श० प्र० श्लो० ६३ टी० पृ० ७३ )। ताः सुपः प्रथमाद्वितीयादिभेदेन सप्तविधाः । सुप प्रकारान्तरेण द्विधा कारकार्था कारकार्थान्या चेति । कारकार्था कारकविभक्तिः । तत्र वृत्त्या कारकस्य बोधिका कारकार्था । तदन्यस्य बोधिका कारकार्थान्या ( श० प्र० श्लो० ६७ टी० पृ० ७७ )। [ख] वैयाकरणास्तु व्याकरणपरिभाषिताः सुप्रभृतिसुपपर्यन्ताः सुपप्रत्याहारान्तर्गताः एकविंशतिसंख्याकाः प्रत्ययविशेषाः । यथा रामः इत्यादौ रामपदोत्तरं सुविभक्तिः इत्याहुः । ते च प्रत्ययाः सु औ जस् अम् औट शस् टा भ्यां मिस् के भ्याम् भ्यस् ङसि भ्याम् भ्यस् ङस् ओस् आम् ङि ओस् सुप् ( पाणि० ४।१।२ ) इति । शिष्टं तु विभक्तिशब्दव्याख्याने दृश्यम् । सुप्तः-निद्रितः । यथा निर्विकल्पकासत्त्वे सुप्तोत्थितम् अयं घटः इति विशिष्टज्ञानं न स्यात् ( त० कौ० १ पृ० ८ ) इत्यादौ ग्रन्थे सुप्तशब्दार्थः । अत्रोच्यते प्रसङ्गतो व्यवहारोपयोगि । क्षुधितस्तृषितः कामी विद्यार्थी कृषिकारकः । भाण्डारी च प्रवासी च सप्त सुप्तान प्रबोधयेत्।। इति । अन्यच्च मक्षिका भ्रमरः सर्पो राजा वै बालकस्तथा । परश्चापि च मूर्खश्च सप्त सुप्तान बोधयेत् ॥ ( नीतिसारे ) इति । सुभद्रा—(कल्याणीशब्दे दृश्यम् )। सुरा-पैष्ट्याख्यो मद्यविशेषः । यथा न सुरां पिबेत् ( मनु० अ० ११ श्लो० ९३ ) इत्यादौ सुराशब्दस्यार्थः । अत्रेदं बोध्यम् । यद्यपि सुराशब्दवाच्याः गौडी माध्वी पैष्टी इति तिस्रः तथापि सुराशब्दो पैष्टीमात्रे मुख्यः । गौड़ीमाध्व्योर्गौणः । तथोक्तं भविष्यपुराणे सुरा च पैष्ट्री
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org