________________
१०२८
न्यायकोशः। - स्वभावमधुरो ध्वनिश्च मधुरो यथा ॥ भूसंसर्गवशाञ्चास्य रूपं नैव प्रतीयते। स्फटिकस्य जपायोगाद्यथा रूपं न भासते ॥ ( न्या० ली० . तेजोनि० पृ० ९) इति । अथ सुवर्णस्य तैजसत्वे प्रकारान्तरेणानुमानमुच्यते । सुवर्णं तैजसम् असति प्रतिबन्धकेत्यन्तानलसंयोगेपि अनुच्छिद्यमानद्रवत्वात् यन्नैवं तन्नैवं यथा पृथिवी (मु० तेजोनि० पृ० ८१ ) इति । अग्नौ सुवर्णमक्षीणम् ( याज्ञ० २।१७८ ) इति स्मृतेरग्निसंयोगेपि तस्य नोच्छेदः । अत्रेदं विज्ञेयम् । अत्यन्तानलसंयोगे सति पार्थिवे घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृतादौ द्रवत्वनाशादर्शनेन असति प्रतिबन्धके पार्थिवद्रवत्वनाशात्यन्ताग्निसंयोगयोः कार्यकारणभावावधारणात् सुवर्णस्यात्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वानुपपत्तिः । तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वाय्वादिध्वनन्तर्भावात् तैजसत्वसिद्धिः । तस्योष्णस्पर्शभास्वररूपयोरुपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः । तस्मात् सुवर्णं तैजसम् इति सिद्धम् (त० दी० १ पृ० ८-९)। आगमोपि अनेरपत्यं प्रथम हिरण्यम् (दि. १ पृ० ८१ ) इति । ब्राह्मणस्वामिकसुवर्णचौर्ये महापातकम् । तत्संग्रहस्तु पातकशब्दव्याख्याने (पृ० ४९८ ) दृश्यः । एवम् हिरण्य रौप्य इत्यादयः शब्दा व्याख्येयाः। २ कर्षपरिमाणम् । यथा प्रायश्चित्तप्रत्याम्नायादौ सुवर्णशब्दार्थः कर्षपरिमाणम् । ३ धनम्।
४ धत्तरम् इत्यादि। सुषुप्तिः- [क] प्रदेशविशेषावस्थितमनःसंयोगः ( नील० गु० पृ०
३८)। स च प्रदेशः पुरीतदात्मकः । [ ख ] निद्रानाड्यवच्छिन्नात्ममनोयोगः ( कृष्णं० ) । [ग] पुरीतता मनसः संयोगः। यथा पुरुषः सुप्तः स्वप्नया चरति । तौ ह सुप्तं पुरुषमाजग्मतुः ( कौषीत० ४।१५-१९) इत्यादौ स्वपधात्वर्थः स्वापः। स एव सुषुप्तिः । सुषुप्तेरुत्पत्तिमाहुर्नव्याः । प्रथमम् सुषुप्त्यनुकूलमनःक्रियया पुरीतद्व्यतिरिक्तात्मप्रदेशान्मनसो विभागः । ततस्तत्संयोगनाशः । ततः पुरीतदात्मकोत्तर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org