________________
न्यायकोशः। देशेन मनसः संयोग उत्पद्यते । सैव सुषुप्तिः (दि. ११३ पृ०११५) इति । अत्रेदं बोध्यम् । सुषुप्तौ न किंचिदपि ज्ञानमुत्पद्यते। सुषुप्तिकाले पुरीतति त्वगिन्द्रियाभावेन तत्र स्थितमनसस्त्वक्संयोगासंभवात् । पुरीतद्भिनदेशावच्छिन्नमनःसंयोगस्य (त्वानःसंयोगस्य ) ज्ञानसामान्यं प्रति कारणत्वात् ( राम० १ पृ० ११४-११५ ) इति । पुरीतत् अब इत्याख्यो नाडीविशेषः इति ज्ञेयम् (अमरः २।६।६६ )। अत्र श्रुतिः। अथ यदा सुप्तो भवति तदा न कस्यचन ( न कंचन ) वेद । हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते (शतपथब्रा० १४ बृह० २।१।१९ )। यत्रतत्पुरुषः सुप्तः स्वप्नं ( स्वप्नसृष्टं फलम् ) न कंचन पश्यति ( कौषीत० उप० ३३ )। तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति (छान्दो० उ० ८।६।३) इत्यादिः । मायावादिवेदान्तिनस्तु [घ] ज्ञानशून्यो जीवस्यावस्थाविशेष इत्याहुः। अत्र श्रुतिः यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत् सुप्तमिति (बृह० उ० ४।३।१९) इति । अत्रेदं विज्ञेयम् । सांख्यमते सुषुप्त्यवस्था च द्विविधा । अर्धलयसमग्रलयभेदात् । तत्रालिये विषयाकारा वृत्तिर्न भवति । किं तु स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्तिर्भवति । समग्रलये तु बुद्धवृत्तिसामान्याभावो मरणादाविव भवति ( सांख्य० भा० अ० १ सू० १४८ )। किं च मायावादिमते समग्रलये जीवः परमात्मनैक्यमाप्नोति (शारी० भा० ११११९)। तत्र श्रुतिः यत्रतत्पुरुषः स्वपिति नाम सता सौम्य तदा संपन्नो भवति । स्वमपीतो भवति । तस्मादेन५ स्वपितीत्याचक्षते ( छान्दो० ६।८।१) इति । मध्वमते तु तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् एवमेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्य किंचन वेद नान्तरम् (बृह० उप० ६।३।२१) इति श्रुत्या जीवः सुषुप्त्यवस्थायां परमात्मन आलिङ्गनमात्रं प्राप्नोति इति प्रतिपाद्यते इत्यलं विस्तरेण । [] प्रबोधसहकार्यभावेन क्लेशस्यानभिव्यक्तिः इति योगिन आहुः ( सर्व० पृ० ३५९ पातञ्जल० )। [च] निद्रा इति काव्यज्ञा आहुः ( अमरः ११७३६)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org