________________
न्यायकोशः।
सूक्तवाकः-इदं द्यावापृथिवी भद्रमभूत् इत्यादिको मन्त्रः । यथा सूक्त- वाकेन प्रस्तरं प्रहरति इति । प्रस्तरो दर्भमुष्टिः (जै० न्या० अ० ३
पा० २ अधि० ५) सूक्ष्मम्-१ अत्यल्पः पदार्थः। यथा अणुपरिमाणुयुतः परमाण्वादिः ।
यथा वा अध्यात्मपदार्थः सूक्ष्मशरीरम् । यथा वा केषांचिद्वेदान्तिनां मते अपञ्चीकृतानि पृथिव्यादीनि पञ्च महाभूतानि सूक्ष्माणि तन्निर्मितं शरीरं सूक्ष्मशरीरम् । तदुक्तम् पञ्चप्राणमनोबुद्धिदशेन्द्रियसमन्वितम् । अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् ।। इति । इदं च लोकान्तरगामि भोगोपभोगसमर्थं लिङ्गशरीरम् इत्युच्यते । सांख्यास्तु महदहंकारैकादशेन्द्रियपञ्चतन्मात्राणां समुदायः सूक्ष्मशरीरम् । शान्तघोरमूडैरिन्द्रियैरन्वितत्वात् विशेषः इति प्रतिपेदिरे (सांख्य० कौ० कारि० ४०)। अत्रोक्तम् सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते (सांख्य० का० श्लो० ३९) इति । सूक्ष्माः सूक्ष्मदेहाः । ते च अनुमिताः । परलोके कर्मफलभोगः सूक्ष्मदेहं विना अनुपपन्नो भोगत्वात् स्थूलदेहारब्धकृष्यादिजनितस्य सत्यस्य स्वदेहेनैव भोगवत् इति । स्वदेहारब्धकर्मादिफलं यत् तत् स्वदेहेनैव भोग्यम् नेतरेण । अन्यथा कृतहानाकृताभ्यागमप्रसङ्गः इत्यादिस्तकस्तत्रानुसंधेयः । २ अर्थालंकारविशेषः । तदुक्तम् संलक्षितस्तु सूक्ष्मोर्थ आकारेणेङ्गितेन वा । कयापि सूच्यते भङ्गया यत्र सूक्ष्मं तदुच्यते ॥ ( साहि० परि० १० श्लो० ९१) । ३ कतकवृक्षः इति भिषज आहुः । ४ कैतवम् इति काव्यज्ञा आहुः। ५ सूक्ष्मं संपूर्णषड्गुणं वासुदेवाख्यं परं ब्रह्म
( सर्व० पृ० ११९ रामा० )।। सूत्रम्-१ शास्त्रीयबह्वर्थप्रतिपादकसंक्षिप्तवाक्यविशेषः । शास्त्रीयसूत्राणि
षविधानि ब्रह्ममीमांसासूत्रम् धर्ममीमांसासूत्रम् न्यायसूत्रम् वैशेषिकसूत्रम् सांख्यसूत्रम् योगसूत्रं चेति । अत्र वेदान्तिनः सूत्रलक्षणमाहुः । अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सुत्रविदो विदुः॥ ( मध्वभा० ११११ प्रस्ताव० पृ० ३) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org