Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1047
________________ न्यायकोशः। देशेन मनसः संयोग उत्पद्यते । सैव सुषुप्तिः (दि. ११३ पृ०११५) इति । अत्रेदं बोध्यम् । सुषुप्तौ न किंचिदपि ज्ञानमुत्पद्यते। सुषुप्तिकाले पुरीतति त्वगिन्द्रियाभावेन तत्र स्थितमनसस्त्वक्संयोगासंभवात् । पुरीतद्भिनदेशावच्छिन्नमनःसंयोगस्य (त्वानःसंयोगस्य ) ज्ञानसामान्यं प्रति कारणत्वात् ( राम० १ पृ० ११४-११५ ) इति । पुरीतत् अब इत्याख्यो नाडीविशेषः इति ज्ञेयम् (अमरः २।६।६६ )। अत्र श्रुतिः। अथ यदा सुप्तो भवति तदा न कस्यचन ( न कंचन ) वेद । हिता नाम नाड्यो द्वासप्ततिसहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते । ताभिः प्रत्यवसृप्य पुरीतति शेते (शतपथब्रा० १४ बृह० २।१।१९ )। यत्रतत्पुरुषः सुप्तः स्वप्नं ( स्वप्नसृष्टं फलम् ) न कंचन पश्यति ( कौषीत० उप० ३३ )। तद्यत्रैतत्सुप्तः समस्तः संप्रसन्नः स्वप्नं न विजानाति (छान्दो० उ० ८।६।३) इत्यादिः । मायावादिवेदान्तिनस्तु [घ] ज्ञानशून्यो जीवस्यावस्थाविशेष इत्याहुः। अत्र श्रुतिः यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यति तत् सुप्तमिति (बृह० उ० ४।३।१९) इति । अत्रेदं विज्ञेयम् । सांख्यमते सुषुप्त्यवस्था च द्विविधा । अर्धलयसमग्रलयभेदात् । तत्रालिये विषयाकारा वृत्तिर्न भवति । किं तु स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्तिर्भवति । समग्रलये तु बुद्धवृत्तिसामान्याभावो मरणादाविव भवति ( सांख्य० भा० अ० १ सू० १४८ )। किं च मायावादिमते समग्रलये जीवः परमात्मनैक्यमाप्नोति (शारी० भा० ११११९)। तत्र श्रुतिः यत्रतत्पुरुषः स्वपिति नाम सता सौम्य तदा संपन्नो भवति । स्वमपीतो भवति । तस्मादेन५ स्वपितीत्याचक्षते ( छान्दो० ६।८।१) इति । मध्वमते तु तद्यथा प्रियया स्त्रिया संपरिष्वक्तो न बाह्यं किंचन वेद नान्तरम् एवमेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्य किंचन वेद नान्तरम् (बृह० उप० ६।३।२१) इति श्रुत्या जीवः सुषुप्त्यवस्थायां परमात्मन आलिङ्गनमात्रं प्राप्नोति इति प्रतिपाद्यते इत्यलं विस्तरेण । [] प्रबोधसहकार्यभावेन क्लेशस्यानभिव्यक्तिः इति योगिन आहुः ( सर्व० पृ० ३५९ पातञ्जल० )। [च] निद्रा इति काव्यज्ञा आहुः ( अमरः ११७३६)। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102