Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1046
________________ १०२८ न्यायकोशः। - स्वभावमधुरो ध्वनिश्च मधुरो यथा ॥ भूसंसर्गवशाञ्चास्य रूपं नैव प्रतीयते। स्फटिकस्य जपायोगाद्यथा रूपं न भासते ॥ ( न्या० ली० . तेजोनि० पृ० ९) इति । अथ सुवर्णस्य तैजसत्वे प्रकारान्तरेणानुमानमुच्यते । सुवर्णं तैजसम् असति प्रतिबन्धकेत्यन्तानलसंयोगेपि अनुच्छिद्यमानद्रवत्वात् यन्नैवं तन्नैवं यथा पृथिवी (मु० तेजोनि० पृ० ८१ ) इति । अग्नौ सुवर्णमक्षीणम् ( याज्ञ० २।१७८ ) इति स्मृतेरग्निसंयोगेपि तस्य नोच्छेदः । अत्रेदं विज्ञेयम् । अत्यन्तानलसंयोगे सति पार्थिवे घृतादौ द्रवत्वनाशदर्शनेन जलमध्यस्थघृतादौ द्रवत्वनाशादर्शनेन असति प्रतिबन्धके पार्थिवद्रवत्वनाशात्यन्ताग्निसंयोगयोः कार्यकारणभावावधारणात् सुवर्णस्यात्यन्तानलसंयोगे सत्यनुच्छिद्यमानद्रवत्वाधिकरणत्वेन पार्थिवत्वानुपपत्तिः । तस्मात् पीतद्रव्यद्रवत्वनाशप्रतिबन्धकतया द्रवद्रव्यान्तरसिद्धौ नैमित्तिकद्रवत्वाधिकरणतया जलत्वानुपपत्तेः रूपवत्तया वाय्वादिध्वनन्तर्भावात् तैजसत्वसिद्धिः । तस्योष्णस्पर्शभास्वररूपयोरुपष्टम्भकपार्थिवरूपस्पर्शाभ्यां प्रतिबन्धादनुपलब्धिः । तस्मात् सुवर्णं तैजसम् इति सिद्धम् (त० दी० १ पृ० ८-९)। आगमोपि अनेरपत्यं प्रथम हिरण्यम् (दि. १ पृ० ८१ ) इति । ब्राह्मणस्वामिकसुवर्णचौर्ये महापातकम् । तत्संग्रहस्तु पातकशब्दव्याख्याने (पृ० ४९८ ) दृश्यः । एवम् हिरण्य रौप्य इत्यादयः शब्दा व्याख्येयाः। २ कर्षपरिमाणम् । यथा प्रायश्चित्तप्रत्याम्नायादौ सुवर्णशब्दार्थः कर्षपरिमाणम् । ३ धनम्। ४ धत्तरम् इत्यादि। सुषुप्तिः- [क] प्रदेशविशेषावस्थितमनःसंयोगः ( नील० गु० पृ० ३८)। स च प्रदेशः पुरीतदात्मकः । [ ख ] निद्रानाड्यवच्छिन्नात्ममनोयोगः ( कृष्णं० ) । [ग] पुरीतता मनसः संयोगः। यथा पुरुषः सुप्तः स्वप्नया चरति । तौ ह सुप्तं पुरुषमाजग्मतुः ( कौषीत० ४।१५-१९) इत्यादौ स्वपधात्वर्थः स्वापः। स एव सुषुप्तिः । सुषुप्तेरुत्पत्तिमाहुर्नव्याः । प्रथमम् सुषुप्त्यनुकूलमनःक्रियया पुरीतद्व्यतिरिक्तात्मप्रदेशान्मनसो विभागः । ततस्तत्संयोगनाशः । ततः पुरीतदात्मकोत्तर Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102