Book Title: Nyayakosh
Author(s): Bhimacharya, Vasudev Shastri
Publisher: Bhandarkar Prachya Vidya Sanshodhan Mandir

View full book text
Previous | Next

Page 1042
________________ १०२४ न्यायकोशः। धर्मः इति सांख्या आहुः । अत्र सांख्यानां मायावादिनां चायमाशयः सुखं चित्तधर्मोप्यध्यस्ततया प्रतिबिम्बरूपेण वात्मनि वर्तत इति । अत्रेदं विज्ञेयम् । कणादमहर्षिश्च कण्ठतः सुखदुःखयोः इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः (वै० १०।१।१ ) इत्यनेन कारणभेदात् भिन्नपदार्थत्वमुक्तवान् । तथा चायमर्थः । दुःखाभिन्नं सुखं न भवति । तथा च सुखं दुःखमिश्रितत्वेन दुःखाभिन्नमस्ति इति प्रत्ययस्तु भ्रम एव इति । कार्यभेदेनापि सुखस्य दुःखाद्भेदमाहुः । अनुग्रहाभिष्वङ्गनयनप्रसादादि सुखस्य कार्यम् इति प्रशस्तपादाचार्यादयः (वै० उ० १०।१।१ पृ० ४१७ ) । अत्र भाष्यम् । अनुग्रहलक्षणं सुखम् । स्वर्गाद्यभिप्रेतविषयसांनिध्ये सति इष्टोपलब्धीन्द्रियार्थसंनिकर्षाद्धर्माद्यपेक्षादात्ममनसोः संयोगाद्यद्यदनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत्सुखम् । तदिदमतीतेषु विषयेषु स्रक्चन्दनादिषु स्मृतिजम् । अनागतेषु संकल्पजम् । यत्तु विदुषामसत्सु विषयानुस्मरणेच्छासंकल्पेष्वाविर्भवति तत् विद्याशमसंतोषधर्मविशेषनिमित्तम् ( प्रशस्त० २ पृ०.३२ ) इति । [ग] अनित्येच्छानधीनेच्छाविषयः (प्र० प्र०)। [घ] सुखत्वसामान्यवत् । इदं च जीवेश्वरसुखसाधारणलक्षणम् इति विज्ञेयम् । [ङ ] निरुपाध्यनुकूलवेद्यम् । अत्र अनुकूलमिच्छाविषयः उपाधिः प्रयोजकः इत्यर्थः ( प० च० पृ० ३०) । [च ] सर्वात्मनामनुकूलवेदनीयम् ( त० भा० ) (त० सं० )। अत्रानुकूलत्वं चेष्टत्वम् ( सि० च० )। तथा च । यदनुभवाय चित्तमनुकूलं भवति तत् इत्यर्थः इति कश्चिदाह । तन्न । इच्छाविषयत्वेन ज्ञानविषयः इति तु वयं ब्रूमः । २ क्वचित् दुःखाभावः । यथा भारवाहकस्य भारापगमे दुःखाभावः । अयमाशयः । भारवाहकस्य भारापगमे सुखी संवृत्तोहम् इति प्रत्ययस्य दुःखाभावविषयकत्वेनोपगमात् दुःखाभावे सुखत्वमुपचर्यते इति। दृष्टश्च दुःखाभावेपि सुखशब्दप्रयोगो बहुधा लोके। यथा ज्वराद्यपगमे लौकिका व्याचक्षाणा भवन्ति सुखिनः संवृत्ताः स्मः इति ( न्या० वा० १।१।२२ पृ० ९० ) (मु० १ आत्मनि० पृ० १०३ )। अधिकं शिष्टं तु दुःखशब्द Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100 1101 1102