________________
१०२४
न्यायकोशः।
धर्मः इति सांख्या आहुः । अत्र सांख्यानां मायावादिनां चायमाशयः सुखं चित्तधर्मोप्यध्यस्ततया प्रतिबिम्बरूपेण वात्मनि वर्तत इति । अत्रेदं विज्ञेयम् । कणादमहर्षिश्च कण्ठतः सुखदुःखयोः इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोरर्थान्तरभावः (वै० १०।१।१ ) इत्यनेन कारणभेदात् भिन्नपदार्थत्वमुक्तवान् । तथा चायमर्थः । दुःखाभिन्नं सुखं न भवति । तथा च सुखं दुःखमिश्रितत्वेन दुःखाभिन्नमस्ति इति प्रत्ययस्तु भ्रम एव इति । कार्यभेदेनापि सुखस्य दुःखाद्भेदमाहुः । अनुग्रहाभिष्वङ्गनयनप्रसादादि सुखस्य कार्यम् इति प्रशस्तपादाचार्यादयः (वै० उ० १०।१।१ पृ० ४१७ ) । अत्र भाष्यम् । अनुग्रहलक्षणं सुखम् । स्वर्गाद्यभिप्रेतविषयसांनिध्ये सति इष्टोपलब्धीन्द्रियार्थसंनिकर्षाद्धर्माद्यपेक्षादात्ममनसोः संयोगाद्यद्यदनुग्रहाभिष्वङ्गनयनादिप्रसादजनकमुत्पद्यते तत्सुखम् । तदिदमतीतेषु विषयेषु स्रक्चन्दनादिषु स्मृतिजम् । अनागतेषु संकल्पजम् । यत्तु विदुषामसत्सु विषयानुस्मरणेच्छासंकल्पेष्वाविर्भवति तत् विद्याशमसंतोषधर्मविशेषनिमित्तम् ( प्रशस्त० २ पृ०.३२ ) इति । [ग] अनित्येच्छानधीनेच्छाविषयः (प्र० प्र०)। [घ] सुखत्वसामान्यवत् । इदं च जीवेश्वरसुखसाधारणलक्षणम् इति विज्ञेयम् । [ङ ] निरुपाध्यनुकूलवेद्यम् । अत्र अनुकूलमिच्छाविषयः उपाधिः प्रयोजकः इत्यर्थः ( प० च० पृ० ३०) । [च ] सर्वात्मनामनुकूलवेदनीयम् ( त० भा० ) (त० सं० )। अत्रानुकूलत्वं चेष्टत्वम् ( सि० च० )। तथा च । यदनुभवाय चित्तमनुकूलं भवति तत् इत्यर्थः इति कश्चिदाह । तन्न । इच्छाविषयत्वेन ज्ञानविषयः इति तु वयं ब्रूमः । २ क्वचित् दुःखाभावः । यथा भारवाहकस्य भारापगमे दुःखाभावः । अयमाशयः । भारवाहकस्य भारापगमे सुखी संवृत्तोहम् इति प्रत्ययस्य दुःखाभावविषयकत्वेनोपगमात् दुःखाभावे सुखत्वमुपचर्यते इति। दृष्टश्च दुःखाभावेपि सुखशब्दप्रयोगो बहुधा लोके। यथा ज्वराद्यपगमे लौकिका व्याचक्षाणा भवन्ति सुखिनः संवृत्ताः स्मः इति ( न्या० वा० १।१।२२ पृ० ९० ) (मु० १ आत्मनि० पृ० १०३ )। अधिकं शिष्टं तु दुःखशब्द
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org