Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 13
________________ Jain Education Internat यद्यपि बलवता कालेन कृतस्य भावापकर्षस्य प्रतिविधाने न कस्यापि महतोऽपि विद्यते सामर्थ्यम् किं नाम प्रतिविधानं तद्वेगस्थगनेऽपि न कोऽपि समर्थः । तथापि कालस्यैवायमपि संकेतो यत्सर्वात्मना न वस्तूच्छेदं करोति बीजरूपतया शेषतया वा रक्षत्यपि कालान्तरभाव्युत्कर्षभाञ्जि वस्तुजातमूलानि । अपकर्षो नाम न सर्वात्मना नाशः किन्तु विरलतया विद्यमानता । मेघापाये संह्रियमाणेऽपि सूर्यकिरणादिद्वारा जले लभ्यत एवाल्पाल्पं जलं पल्वलादौ । कृषीवलैर्यावच्छक्ति गृहीतेऽपि क्षेत्राने तत्रैवोच्छवृत्तिभिर्यत्रवद्भिरासाद्यते कणिशादि । ईदृशेऽपि दुःखमये समये परिश्रमशालिभिरन्वेषणपण्डितैरासायन्त एव कालकवलपतितानि तानि तानि ग्रन्थरत्नानि । इयमपि निर्वाणकलिका तथाविधमन्यतमं निबन्धरत्नमेव । एतस्याः पुस्तिकाया अवलोकनेनैव सर्वं विदितं भविष्यति विदुषामिति बहूक्तिरेतद्विषये प्रलाप एव । अस्य निबन्धस्य नित्यकर्मविधिनामके प्रथमप्रकरणे मृदादिना बाह्यशुद्धिः अनन्तरं तत्तद्बीजादिना न्यासादिप्रकारश्च लिखितौ विद्वद्भिरवहितैरवश्यमवलोकनीयौ । द्वितीयस्मिन्नपि दीक्षाप्रकरणे मुक्तिकामस्य प्राञ्जलं, मुक्तिकामस्य तीक्ष्णाग्रमित्यादि समयसंस्कार संस्कृतः पूजाहोमश्रवणाध्ययनादिषु योग्यस्स्याज्जैनं च पदं लभत इत्यादि च लिखितं तदपि च कर्मपराङ्मुखैश्शुष्क वाग्ज्ञानिभिरल सैरवश्यं सपरामर्शे द्रष्टव्यम् । अस्याचार्याभिषेकनामकं तृतीयं प्रकरणमस्ति तत्राचार्यस्य योग्यता तदीयकर्तव्यं तदभिषेकप्रकारश्च यथासंप्रदायं लिखितानि सन्ति । तदनु छत्रचामर- हस्ति अश्व शिबिकादीनि राजाङ्गानि योगपट्टक खटिका - पुस्तक अक्षसूत्र- पादुकादिकं व दद्यात् इति राजाज्ञेव लिखितमस्ति तत्र ग्रन्थे राजचिह्नं कुतो वा कल्पेत निर्मन्थानामित्यादिजल्पद्भिरुत्सूत्र तर्कदा सैर्दृष्टिनिक्षेपो विधेयः । यतो हि किं कस्मै कल्पेत किं कस्य विधेयं किंवा कस्य हेयमित्यादिविषये न बुद्धिस्वातन्त्र्यं न वाल्पज्ञतर्कप्रवेशः । सर्वथा बुद्धिखातच्यं हि नास्तिकता । आगमपराधीनमेव | बुद्धिस्वातत्र्यमास्तिकता । तस्व-धर्म-ज्योतिष चिकित्सानिर्णये शास्त्रनिरपेक्षबुद्धिस्वातन्त्र्ये पापमपि स्मर्यते इति नाविदितं पण्डितानाम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 138