Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
LOCABCSCRECOGRASSAGESGRORS
शत्रुसंहारकृते विहितो दर्शनान्तरे अभिचारः । अयं हि विधाय कर्मणि श्येनाहिंसायास्सत्त्वात् फलेऽपि शत्रुहिंसायास्सत्त्वात् अभ्युदयफलस्य हिंसासाध्यस्य कर्मणस्सह्यत्वेऽपि पापप्रयोजकफलस्य हिंसासाध्यस्य कर्मणोऽसह्यत्वान्निषिद्धश्च ।
जीर्णोद्धारविधिप्रकरणानन्तरं मुद्राविधिनामकं प्रकरणमस्ति । अत्र नाराचादीनां विन्यसनमुद्राणां महामुद्रादीनामावाहनादिमुद्राणां । गोवृषात्रासन्योनॆत्रास्त्रयोः पूजामुद्रयोः पाशादीनां जयादिदेवतापूजामुद्राणां शङ्खादीनां षोडशविद्यादेवीमुद्राणां दण्डादिसहितानामासां दिक्पालमुद्राणामन्यासां च परमेष्ठिप्रभृतीनां मुद्राणां निर्माणप्रकारो दर्शितः । मुद्रादर्शनं बाललीलेवाडम्बरमात्रफलकमिति वदतां संशया-| पनोदायेदं प्रकरणं पर्याप्तमपि मुद्राशिक्षणकर्मणि महोपयोगि । अत्र परं प्रायश्चित्तविधिप्रकरणमस्ति । एतच्च सर्वैरास्तिकैरभ्यस्तव्यम् ।। अतःपरमहंदादीनां वर्णादिक्रमविधिस्ततः परं विद्यादेवीनां षोडशकं दिक्पालदशकं ततः परं ग्रहनवकं ततः परं प्रशस्या ग्रन्थसमाप्तिः । । अस्याचार्यस्य पाण्डित्यं लोकोत्तरं वर्णितं दृश्यते तद्वगमश्च कथावल्यां प्रभावकचरिते च चर्चितादस्य चरित्राद्विधातव्यः। अस्य ग्रन्थस्य |
लेखशैली चापि सूचयति संस्कृतप्राकृतभाषयोराधिपत्यमस्य सूरेः। निर्माल्यं देवस्वदेवद्रव्यनैवेद्यनिवेदितनिर्माल्यभेदेन पञ्चधा। तत्र देवस्वं देवकृते ४ ६ दत्तं ग्रामादि देवद्रव्यं देवकृते कृतमलङ्कारादि नैवेद्यं देवसन्निधौ समाप्तं तत्कृते कल्पितं मोदकादि निवेदितं प्रसादितोत्सृष्टं तदेव निर्माल्यं ।
देवदेशादपसारितं तदेवेत्यादिग्रन्थेन तत्तद्वस्तुभेदोपभेदबोधकेनास्य सूरेस्संप्रदायबोधमहोदधित्वं सुव्यक्तमेव । लोकोत्तरपण्डितस्याप्यस्य वैनयिकी बुद्धिरपि लोकोत्तरवासीत् तस्या वर्णनं चावश्यकटीकायां कृतं दृश्यते । विनयो हि वैदुष्यपरीक्षकः स्थितश्च विदूरे विनयस्य टू विद्वानपि न वस्तुतो विद्वान् इति विदुषां सिद्धान्तं कथमवमन्येतेदृशो विद्वान् ग्रन्थकारः । जीर्णोद्धारकारणं परिगणयता पादलिप्ताचार्येण है
CHOCRAMACHCRACROREOGANGALOCAL
Jan Education interne
For Private & Personal Use Only
Jw.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 138