SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ LOCABCSCRECOGRASSAGESGRORS शत्रुसंहारकृते विहितो दर्शनान्तरे अभिचारः । अयं हि विधाय कर्मणि श्येनाहिंसायास्सत्त्वात् फलेऽपि शत्रुहिंसायास्सत्त्वात् अभ्युदयफलस्य हिंसासाध्यस्य कर्मणस्सह्यत्वेऽपि पापप्रयोजकफलस्य हिंसासाध्यस्य कर्मणोऽसह्यत्वान्निषिद्धश्च । जीर्णोद्धारविधिप्रकरणानन्तरं मुद्राविधिनामकं प्रकरणमस्ति । अत्र नाराचादीनां विन्यसनमुद्राणां महामुद्रादीनामावाहनादिमुद्राणां । गोवृषात्रासन्योनॆत्रास्त्रयोः पूजामुद्रयोः पाशादीनां जयादिदेवतापूजामुद्राणां शङ्खादीनां षोडशविद्यादेवीमुद्राणां दण्डादिसहितानामासां दिक्पालमुद्राणामन्यासां च परमेष्ठिप्रभृतीनां मुद्राणां निर्माणप्रकारो दर्शितः । मुद्रादर्शनं बाललीलेवाडम्बरमात्रफलकमिति वदतां संशया-| पनोदायेदं प्रकरणं पर्याप्तमपि मुद्राशिक्षणकर्मणि महोपयोगि । अत्र परं प्रायश्चित्तविधिप्रकरणमस्ति । एतच्च सर्वैरास्तिकैरभ्यस्तव्यम् ।। अतःपरमहंदादीनां वर्णादिक्रमविधिस्ततः परं विद्यादेवीनां षोडशकं दिक्पालदशकं ततः परं ग्रहनवकं ततः परं प्रशस्या ग्रन्थसमाप्तिः । । अस्याचार्यस्य पाण्डित्यं लोकोत्तरं वर्णितं दृश्यते तद्वगमश्च कथावल्यां प्रभावकचरिते च चर्चितादस्य चरित्राद्विधातव्यः। अस्य ग्रन्थस्य | लेखशैली चापि सूचयति संस्कृतप्राकृतभाषयोराधिपत्यमस्य सूरेः। निर्माल्यं देवस्वदेवद्रव्यनैवेद्यनिवेदितनिर्माल्यभेदेन पञ्चधा। तत्र देवस्वं देवकृते ४ ६ दत्तं ग्रामादि देवद्रव्यं देवकृते कृतमलङ्कारादि नैवेद्यं देवसन्निधौ समाप्तं तत्कृते कल्पितं मोदकादि निवेदितं प्रसादितोत्सृष्टं तदेव निर्माल्यं । देवदेशादपसारितं तदेवेत्यादिग्रन्थेन तत्तद्वस्तुभेदोपभेदबोधकेनास्य सूरेस्संप्रदायबोधमहोदधित्वं सुव्यक्तमेव । लोकोत्तरपण्डितस्याप्यस्य वैनयिकी बुद्धिरपि लोकोत्तरवासीत् तस्या वर्णनं चावश्यकटीकायां कृतं दृश्यते । विनयो हि वैदुष्यपरीक्षकः स्थितश्च विदूरे विनयस्य टू विद्वानपि न वस्तुतो विद्वान् इति विदुषां सिद्धान्तं कथमवमन्येतेदृशो विद्वान् ग्रन्थकारः । जीर्णोद्धारकारणं परिगणयता पादलिप्ताचार्येण है CHOCRAMACHCRACROREOGANGALOCAL Jan Education interne For Private & Personal Use Only Jw.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy