________________
भूमिका.
निर्वाण
चतुर्थमस्य प्रकरणं भूपरीक्षानामकमस्ति । अस्मिन् प्रकरणे भूमिः शुक्ला आज्यगन्धा मधुरा ब्राह्मणस्य, रक्ता...क्षत्रियस्य, पीता.... कलिका.
है वैश्यस्य, कृष्णा शूद्रस्येति लिखता ग्रन्थकारसूरिणा जैनधर्मे वर्णधर्मस्य नांशतोऽप्यवहेलनमित्यादि ज्ञापितम् । भूपरीक्षाविधानंतु सर्वेषां ।
भारतीयानां समानमेवेति न तत्र किन्तुकरणावसरः । यजमानशरीरावयवकण्डूयनेन शृगालादिप्रवेशेन वा निमित्तेन भाविफलानुमान मन्यमानेन मुनिमहोदयेन निमित्तशास्त्रं सर्वेषां माननीयतया समानमिति स्वीकृतम् । एतदपि सूक्ष्मेक्षिकाकटाक्षेणेक्षणीयं निमित्तोपेक्षा|परायणैः स्वाच्छन्द्यपाठपण्डितैः । शिलान्यासविधिनामकं पञ्चमपादप्रतिष्ठानायकमस्य प्रकरणं तत्रापि ब्रह्मरुद्रमहेन्द्रादीनां देवानां स्कन्दपूतनाप्रभृतीनां राक्षसादीनामपि पूजनं विहितं तदपि तत्रान्तरसमानमेव । अन्यदपि प्रतिष्ठाविधिनाम प्रकरणं षष्ठं विद्यते । एतस्यान्तराले द्वारप्रतिष्ठाविधि-बिम्बप्रतिष्ठाविधि-हृत्प्रतिष्ठाविधि-चूलिकाकलशध्वजादिप्रतिष्ठाविधिनामास्ति प्रकरणकदम्बकम् । सप्तमं जीर्णोद्धारविधिप्रकरणमस्ति । एतत्प्रकरणयोरपि विषये तात्रिकदीक्षादौ मन्ये भ्राम्येदाधुनिको भ्रमपूर्णो भद्रबुद्धिः । अदीक्षितान् न श्रावयेत् न तेन लेखयेत् अज्ञानं न दीक्षयेत् । अत्र दीक्षायास्तत्रसिद्धाया एव ग्रहणम् । सर्वतोभद्रमण्डलादीनां तात्रिकसम्मतानामेवात्रापि स्वीकारः। पुत्रादिकामनाकृतेऽपि विहितोऽभिषेकः काम्यः । देशिको गुरुरपि तात्रिक एवाभिमतस्तदेतेप्युद्वेगकरा इव भविष्यन्ति संप्रदायरहस्यावबोध । उदासीनानाम् । सकामेनाकामेन ज्ञानवता तदभाववता स्वस्थेनास्वस्थेन कृतानां पापानां प्रायश्चित्तस्य तारतम्यं मननीयम् इतरदर्शनसाधारणं च । अष्टमूर्ति निर्देशोऽपि व्यवस्थापयति समानतां वैदिकागमव्यवहारेणास्यागमस्य व्यवहारे । तत्र तत्र भासमानो नातिन्यूनाधिकस्सांख्य योगयोस्सिद्धान्तोपि प्रमाणयति प्राचीनार्याणां व्यवहारसाम्यम् । नित्यकर्मप्रकारो गृहदेवताबलिप्रकारश्चास्य साम्य एव सम्मतौ । सर्वेषामपि साम्यदर्शकप्रमाणानां प्रबलं प्रमाणमिदं यदत्रापि दृश्यते चर्चा अभिचारस्य । द्वेषस्योत्कटत्वे कलहे च स्वस्यैव द्वयोर्वा विनाशशङ्कायां
SAMADHAMAL
SOLUCRUSHAURIRSKOROSHO
Jain Education Interna
For Private & Personal Use Only
X
ww.jainelibrary.org