________________
निर्वाणकलिका.
भूमिका.
॥४॥
NAGARIGANGANA
सूरिणा पिशाचाद्यधिष्ठानभूतस्यापि विम्बस्य पुनरुद्धारो विहित इत्यपि अल्पज्ञैः पिशाचादीनां चर्चा न गण्यमान्यप्राज्ञसंमतेति कथयद्भि-8 विचारणीयम् । अस्मिन् निबन्धकारे निवसतां गुणानां गणनायां तु नाहं प्रवृत्तो न वा स मम साध्यस्तथापीति तूच्यते यत् सूरिणा
प्रसङ्गमुत्थाप्य मतान्तरचर्चापि नाहता का कथा निन्दायाः एतस्यैव नाम पाण्डित्यम् । द एतत्सूरिवर्यकृतास्तरङ्गवतीकथाप्रश्नप्रकाशशत्रुजयकल्पनामानोऽपि निबन्धा आकर्ण्यन्ते । प्राकृतभाषानिबद्धायास्तरङ्गवतीकथाया
संक्षेपः कृतो नेमिचन्द्रसूरिणा सूरिप्रकाण्डेन । शत्रुजयकल्पस्तु श्रीभद्रबाहुखामिकृतस्य श्रीवत्रस्वामिनोद्धृतस्य संक्षेपरूपः । अस्मादेव सारमुद्धृत्य संक्षेपेण प्रणीतः शत्रुजयकल्पः श्रीजिनप्रभसूरिणा । कल्पः प्राभृततः पूर्व कृतः श्रीभद्रबाहुना । श्रीवत्रेण ततः पादलिप्ताचा-31 यस्ततः परम् । इतोप्युद्धत्य संक्षेपात्प्रणीत: कामितप्रदः । श्रीशत्रुजयकल्पोऽयं श्रीजिनप्रभसूरिभिरिति प्रमाणमत्रार्थे । ग्रन्थकृता तथा चागम इति कृत्वा प्रमाणरूपतयोदाहृतास्तास्ता गाथाः पूर्वागमानाम् । ____एतस्य पादलिप्तसूरीश्वरस्येतिवृत्तं प्रभावकचरिते पादलिप्तप्रबन्धे वर्णितमस्ति तत एवैतजिज्ञासुभिर्द्रष्टव्यम्। कोशलायां पुरि फुल्लप्रतिमाभ्यां महामुनेरस्य जन्म कृपातः शासनदेवतायाः श्रीपार्श्वनाथायतनायतनाया आशीर्वादतश्चार्यनागहस्तिसूरीणाम् । गर्भादष्टमे वर्षे विद्यारम्भो ? वर्षेणैव चाध्ययनं सर्वविद्यानां वैदग्ध्यातिशयमहिमवशात् । तासु तासु राजसभासु तैस्तैः पण्डितप्रकाण्डैस्सह शास्त्रार्थो विजयश्च वर्णितो विस्तरेण । जन्मसमयस्त्वेषां बहूहापोहपुरस्सरमाजभाषाभूमिकायां वी. ए. (ऑनर्स), एलूएल्. बी. सोलीसीटराद्युपाधिधारिणा श्रीभगवान्-8
॥४॥ दासजीतनयेन पण्डित श्रावकश्री मोहनलालजीयनेन लिखितायां सुनिरूपितो वर्तते सच विक्रमसम्वत्सरस्य तृतीये वर्षे प्रतिभाति
रमापतिमिश्रः
BREAK
Jain Education Internas
For Private & Personal use only
O
w.jainelibrary.org