Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 82
________________ प्रदक्षिणीकृत्य पाश्चात्यद्वारेण प्रवेश्य वेदिकायां संस्थाप्य अधिवासनामन्त्रेणाधिवास्य पुष्पवासधूपादिभिः १ सम्पूज्य मुद्रान्यासं कृत्वा धर्माभिजप्तवाससा संच्छाद्य नैवेद्यं दत्त्वा अहंदादीनि पञ्च तत्वानि विन्यस्य माप्तेजोवाताकाशगन्धरसरूपस्पर्शशब्दोपस्थपायुपादपाणिवाक्नासिकाजिह्वाचक्षुस्त्वक्श्रोत्रमनोऽहङ्कारबु. द्वय इति निष्ठुरया संनिरोध्य शिलां पूजयेत् । पूर्वादिशिलासु च तत्त्वानि सर्वाणि विन्यस्य निरोध्य पूजयेत् ॥ अथ शिलाकुम्भनामानि-नन्दा भद्रा जया रिक्ता चेति हस्तप्रमाणा अष्टाङ्गुलोच्छ्रिताः स्वस्तिकाङ्किताः शैलमये शैलमयाः इष्टिकामये तन्मयाः पद्म-महापद्म-शङ्क-मरकत-समुद्राख्याः कुम्भा इति पञ्चमूर्तिपक्षः। नवपक्षे तु सुभद्र-विभद्र-सुदन्त-जय-विजय-पूर्व-उत्तर-संज्ञकाः शिलाः । सुनन्दा भद्रा जया पूर्णा अजिता विजया मङ्गला धरणीसंज्ञकाः मध्यस्था ब्रह्मरूपिणीति । ततः शिलां कुम्भांश्चादाय प्रासादस्थान* मागत्य गर्तासु ॐअहं जिनाय नमः इति मध्यमगायां कुम्भंविन्यस्य लग्नकाले सिद्धशक्तिं विन्यस्य संचिन्त्य ॐहों जिनाय स्वाहेति मन्त्रमुच्चार्य नमस्कारेण शिलां निवेशयेत् । ततः पूर्वादिगर्तासु सिद्धानां शक्तिं विन्यस्य तदनन्तरं । ॐलूं इन्द्राय नमः। ॐरूं अग्नये नमः। ॐसुं यमाय नमः। ॐधू नैऋतये नमः। ॐ वरुणाय नमः । ॐ वायवे नमः। ॐयूं कुबेराय नमः। ॐ ईशानाय नमः। ॐनागाय नमः। ॐब्रह्मणे नमः इति लोकेशमन्त्रीस्ताम्रमयकुम्भान् घृतमधुपूरितान् कृतस्रकसूत्रकण्ठान विन्यस्य तेषामुपरि शिलाः संनि.क.३४ १ हस्ता अष्टाङ्गुल इति ख. पाठः । २ संतकाः शिला इति ख. पाठः । ३ ॐ ह्रौं इति ख. पाठः । ४ ॐब्लू इत्यन्यत्र पाठः। SACRECEMBEROCESCORCESC RECCCCCCA-% Jain Education Intel For Private & Personal Use Only | www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138