Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 129
________________ निर्वाणकलिका. ॥ ३६ ॥ Jain Education Internat मभुजं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां बलां देवीं गौरवर्णा मयूरवाहनां चतुर्भुजां बीजपूरकशूलान्वितद|क्षिणभुजां भुषुण्ठिपद्मान्वितवामभुजां चेति ॥ १७ ॥ ॥ तथा अष्टादशमं अरनाथं हेमाभं नन्दावर्तलाञ्छनं | रेवती नक्षत्रजातं मीनराशिं चेति । तत्तीर्थोत्पन्नं यक्षेन्द्रयक्षं षण्मुखं त्रिनेत्रं श्यामवर्ण शम्बरवाहनं द्वादशभुजं | मातुलिङ्गबाणखङ्गमुद्गरपाशाभययुक्तदक्षिणपाणिं नकुलधनुश्चर्मफलकशूलाङ्कुशाक्षसूत्रयुक्तवामपाणि चेति तस्मिन्नेव तीर्थे समुत्पन्नां धारणीं देवीं कृष्णवर्णां चतुर्भुजां पद्मासनां मातुलिङ्गोत्पलान्वितदक्षिणभुजां पाशाक्षसूत्रान्वितवामकरां चेति ॥ १८ ॥ ॥ तथैकोनविंशतितमं मल्लिनाथं प्रियङ्गुवर्ण कलशलाञ्छनं अश्विनीनक्षत्रजातं मेषराशिं चेति । तत्तीर्थोत्पन्नं कुबेरयक्षं चतुर्मुखमिन्द्रायुधवर्णं गरुडवदनं गजवाहनं अष्टभुजं वैरदपाशचापशूलाभययुक्तदक्षिणपाणिं बीजपूरकशक्तिमुद्गराक्षसूत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां वैरोच्यां देवीं कृष्णवर्णा पद्मासनां चतुर्भुजां वरदाक्षसूत्रयुक्तदक्षिणकरां मातुलि| ङ्गशक्तियुक्तवामहस्तां चेति ॥ १९ ॥ ॥ तथा विंशतितमं मुनिसुव्रतं कृष्णवर्ण कूर्मलाञ्छनं श्रवणजातं मकरराशि चेति । तत्तीर्थोत्पन्नं वरुणयक्षं चतुर्मुखं त्रिनेत्रं धवलवर्णं वृषभवाहनं जटामुकुटमण्डितं अष्टभुजं मातुलिङ्गगदावाणशक्तियुतदक्षिणपाणिं नकुलकपद्मधनुः परशुयुतवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां वरदत्तां | देवीं गौरवर्णा भद्रासनारूढां चतुर्भुजां वरदाक्षसूत्रयुतदक्षिणकरां बीजपूरककुम्भयुतवामहस्तां चेति ॥ २० ॥ १ नन्द्यावर्त इति पाठः । २ शङ्ख इति पाठान्तरम् । ३ वरदपरशु इति पाठः । ४ मातुलिङ्गशूल इति पाठः । For Private & Personal Use Only अर्हदादीनां वणादिक्रमः ॥ ३६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138