Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 130
________________ बजाक्षसूत्रवामपात ॥ २१॥ ॥.तथा यामवर्ण पुरुषवाहमाण्डी देवी का ASRAHASA । तथैकविंशतितमं नमिजिनं कनकवर्ण नीलोत्पललाञ्छनं अश्विनीजातं मेषराशिं चेति । तत्तीर्थोत्पन्नं भृकु-हा टियक्षं चतुर्मुखं त्रिनेत्रं हेमवर्ण वृषभवाहनं अष्टभुजं मातुलिङ्गशक्तिमुद्गराभययुक्तदक्षिणपाणिं नकुलपरशु-8 वज्राक्षसूत्रवामपाणिं चेति । नर्गन्धारीदेवी श्वेतां हंसवाहनां चतुर्भुजां वरदखगयुक्तदक्षिणभुजद्वयां बीजपूरकुम्भयुतवामपाणिद्वयां चेति ॥ २१॥ ॥तथा द्वाविंशतितम नेमिनाथं कृष्णवर्ण शङ्खलाग्छनं चित्राजातं कन्याराशिं चेति । तत्तीर्थोत्पन्नं गोमेधयक्षं त्रिमुखं श्यामवर्ण पुरुषवाहनं षट्भुजं मातुलिङ्गपरशुचक्रान्वितद|क्षिणपाणिं नकुलकशूलशक्तियुतवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां कूष्माण्डी देवी कनकवर्णा सिंहवाहनां चतुर्भुजां मातुलिङ्गपाशयुक्तदक्षिणकरां पुत्राङ्कशान्वितवामकरां चेति ॥२२॥ ॥तथा त्रयोविंशतितमं पार्श्वनाथं प्रियङ्गवर्ण फणिलाञ्छनं विशाखाजातं तुलाराशिं चेति । तत्तीर्थोत्पन्नं पार्श्वयक्षं गजमुखमुरगफणामण्डितशिरसं श्यामवर्ण कूर्मवाहनं चतुर्भुजं बीजपूरकोरगयुतदक्षिणपाणिं नकुलकाहियुतवामपाणि चेति । तस्मिन्नेव तीर्थे समुत्पन्नां पद्मावती देवी कनकवर्णा कुर्कुटवाहनां चतुर्भुजां पद्मपाशान्वितदक्षिणकरां | फलाङ्कुशाधिष्ठितवामकरां चेति ॥ २३ ॥ ॥ तथा चतुर्विशतितमं वर्धमानखामिनं कनकप्रभ सिंहलाञ्छनंद उत्तराफाल्गुन्यां जातं कन्याराशिं चेति । तसर्थात्पन्नं मातङ्यक्ष श्यामवर्ण गजवाहनं द्विभुजं दक्षिणे नकुलं वामे बीजपूरकमिति । तत्तीर्थोत्पन्नां सिद्धायिका हरितवर्णा सिंहवाहनां चतुर्भुजां पुस्तकाभययुक्तदक्षिणकरां १ कुकुट इति पाठान्तरम् । REGA नि* क. Jan Education Interi For Private & Personal Use Only W ww.jainelibrary.org

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138