Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
निर्वाण
कलिका.
॥ ३४ ॥
Jain Education Interd
॥ अथार्हदादीनां वर्णादिक्रमविधिः ॥
तत्रायं कनकावदातवृषलाञ्छनमुत्तराषाढाजातं धनुराशिं चेति । तथा तत्तीर्थोत्पन्न गोमुखयक्षं हेमवर्णगजवाहनं चतुर्भुजं वरदाक्षसूत्रयुतदक्षिणपाणिं मातुलिङ्गपाशान्वितवामपाणि चेति । तथा तस्मिन्नेव तीर्थे समु त्पन्नामप्रतिचक्राभिधानां यक्षिणीं हेमवर्णा गरुडवाहनामष्टभुजां वरदबाणचक्रपाशयुक्तदक्षिणकरां धनुर्वज्रचत्राङ्कुशवामहस्तां चेति ॥ १ ॥ ॥ द्वितीयमजितखामिनं हेमाभं गजलाञ्छनं रोहिणीजातं वृषराशिं चेति । तथा तत्तीर्थोत्पन्नं महायक्षाभिधानं यक्षेश्वरं चतुर्मुखं श्यामवर्ण मातङ्गवाहनमष्टपाणिं वरदमुद्गराक्षसूत्रपा| शान्वितदक्षिणपाणिं वीजपूरकाभयाङ्कुशशक्तियुक्तवामपाणिपल्लवं चेति । तथा तस्मिन्नेव तीर्थे समुत्पन्नामजिताभिधानां यक्षिणीं गौरवर्णा लोहासनाधिरूढां चतुर्भुजां वरदपाशाधिष्ठितदक्षिणकरां बीजपूरकाशयुक्तवामकरां चेति ॥ २ ॥ ॥ तथा तृतीयं सम्भवनाथं हेमाभं अश्वलाञ्छनं मृगशिरजातं मिथुनराशिं चेति । तस्मिं| स्तीर्थे समुत्पन्नं त्रिमुखयक्षेश्वरं त्रिमुखं त्रिनेत्रं श्यामवर्ण मयूरवाहनं षट्भुजं नकुलगदाभययुक्तदक्षिणपाणि | मातुलिङ्गनागाक्षसूत्रान्वितवामहस्तं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां दुरितारिदेवीं गौरवर्णा मेषवाहनां चतु|र्भुजां वरदाक्षसूत्रयुक्त दक्षिणकरां फलाभयान्वितवामकरां चेति ॥ ३॥ ॥ तथा चतुर्थमभिनन्दनजिनं कनकद्युतिं कपिलाञ्छनं श्रवणोत्पन्नं मकरराशि चेति । तत्तीर्थोत्पन्नमीश्वरयक्षं श्यामवर्णं गजवाहनं चतुर्भुजं मातुलिङ्गाक्षसूत्रयुतदक्षिणपाणिं नकुलाङ्कुशान्वितवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां कालिकादेवीं श्यामवर्णा
For Private & Personal Use Only
अर्हदादीनां वर्णादिक्रमः
॥ ३४ ॥
www.jainelibrary.org

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138