Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 80
________________ मागेव मण्डपं प्रासादस्याग्रतः कारयित्वातस्य प्राच्यामीशान्यां वा स्लानमण्डपमधिवासनामण्डपार्थेन निवेश्य लघुप्रतिमासु पञ्चषट्सप्तहस्तानि तोरणानि इतरासु च वसुवेदाङ्गुलाग्राणि न्यग्रोधोदुम्बराश्वत्थप्लक्षद्रुमसमुद्भवानि पूर्वादारभ्य शान्तिभूतिबलारोग्यसंज्ञकानि तोरणान्यस्त्रशुद्धानि वर्मावगुण्ठितानि प्रणवेन विन्यस्य हृन्मन्त्रः स्वनामभिरभ्यर्च्य तच्छाखयोर्मघमहामेघौ कालनीलौ जलाजलो अचलभूलितो प्रणवादिखाहान्तः खनामभिः सम्पूज्य, ततो द्वारेषु कमलश्वेतइन्द्रप्रायरक्तकृष्णनीलमेघपीतपद्मवर्णाः पताकाश्च दत्त्वा मध्ये श्वेतचित्रे वा ध्वजे सम्पूज्य पाश्चात्यद्वारेण प्रविशेत् । ततः पश्चिमायां पूर्वाभिमुखो वा मण्डपनिरीक्षणप्रेशिक्षणताडनाभ्युक्षणावकिरणपूरणसमीकरणसेवनाकुट्टनसन्मार्जनोपलेपनाचक्रीकरणान्तैः कर्मभिः खखमनो पेतैः संस्कृत्य चन्दनच्छटाभिः सम्प्रोक्ष्योज्वलस्वच्छभूतान्विचिन्तयन् विनिक्षिप्य पुनस्तान् दर्भकूर्चिकया समाहृत्य मण्डपस्य मध्ये यवारकोपशोभितां छत्रचामरभृङ्गारकलशध्वजदणव्यजनसुप्रतीकाष्टमङ्गलकान्वितां वेदी संस्थाप्य ततो वासुकिनिर्मोकलघुनी प्रत्यग्रवाससी दधानः कराङ्गुलीविन्यस्तकाञ्चनमुद्रिकः हा प्रकोष्ठदेशनियोजितकनककङ्कणः तपसा विशुद्धदेहो वेदिकायामुदङ्मुखमुपविश्य भूतशुद्धिं विधाय सकली-15 करणार्धपात्रं कृत्वा इन्द्रादीनां कवचं विधाय सत्पुष्पाक्षतगन्धधूपपक्कान्नमनोहरं सर्वविघ्नशान्तये खयमाचार्य इन्द्रादिमूर्तिधरैः सह सर्वासु दिक्षु बलिं प्रक्षिप्य क्षेत्राधिपं पुष्पधूपाक्षतनैवेद्यदीपादिना सम्पूज्य हस्तौ १ स्वीय इति क. पाठः । २ विचिन्तयित्वा इति पाठः । ३ समवृत्य इति ख. ग. पाठः । ४ यवारोप इति ग. पाठः । Jain Education Intel For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138