Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 121
________________ निर्वाणकलिका. ॥ ३२ ॥ Jain Education Interna | दुन्नामयेदिति गदामुद्रा ॥ ७ ॥ अधोमुखवामहस्ताङ्गुलीर्घण्टाकाराः प्रसार्य दक्षिणेन मुष्टिं बध्वा तर्जनीमूध्वां १ मुद्राविधिः कृत्वा वामहस्ततले नियोज्य घण्टावचालनेन घण्टामुद्रा ॥ ८ ॥ उन्नतपृष्ठहस्ताभ्यां संपुढं कृत्वा कनिष्ठिके निष्कास्य योजयेदिति कमण्डलुमुद्रा ॥ ९ ॥ पताकावत् हस्तं प्रसार्य अङ्गुष्ठयोजनेन परशुमुद्रा ॥ १० ॥ यद्वा पताकाकारं दक्षिणकरं संहताङ्गुलिं कृत्वा तर्जन्यङ्गुष्ठाक्रमणेन परशुमुद्रा द्वितीया ॥ ११ ॥ ऊर्ध्वदण्डौ करौ कृत्वा पद्मवत् करशाखाः प्रसारयेदिति वृक्षमुद्रा ॥ १२ ॥ दक्षिणहस्तं संहताङ्गुलिमुन्नमय्य सर्पफणावत् किञ्चिदाकुञ्चयेदिति सर्पमुद्रा || १३ || दक्षिणकरेण मुष्टिं बद्धा तर्जनीमध्यमे प्रसारयेदिति खङ्गमुद्रा ॥ १४ ॥ हस्ताभ्यां संपुढं विधायाङ्गुलीः पद्मवद्विकारस्य मध्यमे परस्परं संयोज्य तन्मूललग्नाङ्गुष्ठौ कारयेदिति ज्वलनमुद्रा ॥१५॥ बद्धमुष्टेर्दक्षिणकरस्य मध्यमाङ्गुष्ठतर्जन्योस्तलान्मूलाक्रमेण प्रसारयेदिति श्रीमणिमुद्रा ॥ १६ ॥ एताः षोडशविद्यादेवीनां मुद्राः ॥ ॥ दक्षिणहस्तेन मुष्टिं बद्धा तर्जनीं प्रसारयेदिति दण्डमुद्रा ॥ १ ॥ परस्परोन्मुखौ मणिबन्धाभिमुखकरशाखौ करौ कृत्वा ततो दक्षिणाङ्गुष्ठकनिष्ठिकाभ्यां वाममध्यमानामिके तर्जनीं च तथा वामाङ्गुष्ठ कनिष्ठिकाभ्यामितरस्य मध्यमानामिके तर्जनीं समाक्रम्येदिति पाशमुद्रा ॥ २ ॥ परस्पराभिमुख मूर्ध्वाङ्गल्यौ करौ कृत्वा तर्जनीमध्यमानामिका विरलीकृत्य परस्परं संयोज्य कनिष्ठिकाङ्गुष्ठौ पातयेदिति शूलमुद्रा ॥ ३॥ यद्वा पताकाकारं करं कृत्वा कनिष्ठिकामङ्गुष्ठेनाक्रम्य शेषाङ्गुलीः प्रसारयेदिति शूलमुद्रा द्वितीया ॥ ४ ॥ एताः १ दक्षिणमुष्टिं इति पाठः । ८५२ For Private & Personal Use Only ॥ ३२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138