Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai

View full book text
Previous | Next

Page 101
________________ निर्वाण कलिका. ॥ २२ ॥ Jain Education Int | विधिना श्रीमद्भगवन्तमधिवास्य गन्धधूपपुष्पाद्यधिवासितायां खास्तीर्णायां विद्रुमशय्यायां शाययेत् । वर्म| जप्ता रक्तवाससा चाच्छादयेत् । तदनु सप्तगीतवाद्यमङ्गलादिना चतुर्विधश्रमणसङ्खेन सह । ततः प्रभातायां शर्वर्यामुदये प्राप्ते वासरे सूरिः प्रतिष्ठां कुर्यात् ॥ उक्तं च ॥ ईय विहिणा अहिवा सेज्ज देवविम्बं निसाए सुद्धमणो । तो उग्गयम्मि सूरे होइ पइट्ठासमारम्भो ॥ १ ॥ इति अधिवासनाविधिः ॥ ततः काश्चित् कालकलां | विलम्ब्य पूर्ववच्छान्तिवलिं प्रक्षिप्य चैत्यवन्दनादिकं कर्म कृत्वा वस्त्रमपनीयाऽविधवनायिकायाः समर्पयेत् । ततो रजतमयवर्तिका निहितमधुदित्र्यया सुवर्णशलाकया अर्हन्मन्त्रमुच्चार्य ज्ञानचक्षुरुन्मीलयेत् ॥ तथा चागमः ॥ कैलासलायाए महुघय पुष्णाए अच्छि उग्धोंडे । अण्णेण वा हिरण्णेण निययजह सत्तिविहवेण ॥२॥ दृष्टिन्यासे च दृष्टेराप्यायननिमित्तं घृतादर्शदधीनि संदर्शयेत् । तदनु योजनेऽपि कोटिसहस्रावस्थानं वचनस्य स्वस्वभाषया | परिणमनं रुग्वैर मारिदुर्भिक्षडमरादीनामभावः । अतिवृष्ट्यनावृष्टी न भवतः । इति कर्मक्षयोत्पन्नगुणान् जिनेन्द्राणां स्थापयेत् । ॐ नमो भगवते अर्हते घातिक्षयकारिणे घातिक्षयोत्पन्नगुणान् जिने संस्थापयामि स्वाहा । घातिकर्मक्षयोत्पन्नैकादशातिशयस्थापनामन्त्रः ॥ पश्चादाचार्यः स्वमन्त्रोचारपुरस्सरं प्रासादं गत्वा विघ्नानुत्साद्य रत्नादिपञ्चकं विन्यसेत् । तत्र पूर्वस्यां वज्रं, आग्नेय्यां सूर्यकान्तं, दक्षिणस्यां नीलं, नैर्ऋत्यां महानीलं, १ धर्म इति स्यात् । २ इति विधिना अधिवासयेत् देवविम्बं निशायां शुद्धमनाः । तत उगते सूर्ये भवति प्रतिष्ठासमारम्भः ॥ १ ॥ ३ कल्याणशलाकया मधुघृतपूर्णया अक्षी उद्घाटयेत् । अन्येन वा हिरण्येन नियतयथाशक्तिविभवेन ॥ २ ॥ ४ उघारे इति ग. पाठः । For Private & Personal Use Only बिम्बप्रति. ॥ २२ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138