________________
निर्वाण
कलिका.
॥ २२ ॥
Jain Education Int
| विधिना श्रीमद्भगवन्तमधिवास्य गन्धधूपपुष्पाद्यधिवासितायां खास्तीर्णायां विद्रुमशय्यायां शाययेत् । वर्म| जप्ता रक्तवाससा चाच्छादयेत् । तदनु सप्तगीतवाद्यमङ्गलादिना चतुर्विधश्रमणसङ्खेन सह । ततः प्रभातायां शर्वर्यामुदये प्राप्ते वासरे सूरिः प्रतिष्ठां कुर्यात् ॥ उक्तं च ॥ ईय विहिणा अहिवा सेज्ज देवविम्बं निसाए सुद्धमणो । तो उग्गयम्मि सूरे होइ पइट्ठासमारम्भो ॥ १ ॥ इति अधिवासनाविधिः ॥ ततः काश्चित् कालकलां | विलम्ब्य पूर्ववच्छान्तिवलिं प्रक्षिप्य चैत्यवन्दनादिकं कर्म कृत्वा वस्त्रमपनीयाऽविधवनायिकायाः समर्पयेत् । ततो रजतमयवर्तिका निहितमधुदित्र्यया सुवर्णशलाकया अर्हन्मन्त्रमुच्चार्य ज्ञानचक्षुरुन्मीलयेत् ॥ तथा चागमः ॥ कैलासलायाए महुघय पुष्णाए अच्छि उग्धोंडे । अण्णेण वा हिरण्णेण निययजह सत्तिविहवेण ॥२॥ दृष्टिन्यासे च दृष्टेराप्यायननिमित्तं घृतादर्शदधीनि संदर्शयेत् । तदनु योजनेऽपि कोटिसहस्रावस्थानं वचनस्य स्वस्वभाषया | परिणमनं रुग्वैर मारिदुर्भिक्षडमरादीनामभावः । अतिवृष्ट्यनावृष्टी न भवतः । इति कर्मक्षयोत्पन्नगुणान् जिनेन्द्राणां स्थापयेत् । ॐ नमो भगवते अर्हते घातिक्षयकारिणे घातिक्षयोत्पन्नगुणान् जिने संस्थापयामि स्वाहा । घातिकर्मक्षयोत्पन्नैकादशातिशयस्थापनामन्त्रः ॥ पश्चादाचार्यः स्वमन्त्रोचारपुरस्सरं प्रासादं गत्वा विघ्नानुत्साद्य रत्नादिपञ्चकं विन्यसेत् । तत्र पूर्वस्यां वज्रं, आग्नेय्यां सूर्यकान्तं, दक्षिणस्यां नीलं, नैर्ऋत्यां महानीलं, १ धर्म इति स्यात् । २ इति विधिना अधिवासयेत् देवविम्बं निशायां शुद्धमनाः । तत उगते सूर्ये भवति प्रतिष्ठासमारम्भः ॥ १ ॥ ३ कल्याणशलाकया मधुघृतपूर्णया अक्षी उद्घाटयेत् । अन्येन वा हिरण्येन नियतयथाशक्तिविभवेन ॥ २ ॥ ४ उघारे इति ग. पाठः ।
For Private & Personal Use Only
बिम्बप्रति.
॥ २२ ॥
www.jainelibrary.org