________________
पश्चिमस्यां मौक्तिकं, वायव्यां पुष्परागं, उत्तरस्यां पद्मरागं, ईशान्यां वैडूर्यमिति पूर्वादिगर्तासु विन्यस्य । मध्यगर्तायां समस्तानीति । ततो हेमताम्रकृष्णलोहत्रपुरौप्यरीतिकाकांस्यसीसकाद्यपि पूर्वादिगर्तासु मध्ये सम-* ग्राणि देशशक्तिमनुस्मरन् न्यस्येत् । तदनु हरिताली मनःशिलां तौरिकां सुवर्णमाक्षिकां पारदं हैमगैरिक गन्धकां अभ्रकामिति धातून स्मृतिबीजात्मकान् पूर्वादिगर्तासु । मध्ये समस्तानि । अथोशीरविष्णुकान्तारक्त
चन्दनकृष्णागुरुश्रीखण्डं उत्पलसारिकं कुष्टं शङ्खपुष्पिकाद्यौषधीरारोग्यशक्तिमनुसंधाय यथासंख्यं पूर्वादिगसासु मध्यगायामखिलान्यसेदिति ॥ यद्वा सर्वरत्नाभावे वज्र लोहानां सुवर्ण धातूनां हरितालं औषधीनां
सहदेवी बीजानां यवाः एकं वा पारदं सर्वगर्तासु विन्यस्य । मध्यमगर्तायां सिंहासनपाण्डुकम्बलशिलालङ्कतं 8 हेममयं ताम्रमयं मृन्मयं मेलं स्थापयेदिति । स्थिरप्रतिष्टायामयं विधिरितरायां रत्नगर्भाकुलालचक्रमृत्तिका दर्भाश्च स्थापयेदिति । ततो धर्मजप्तवाससा प्रच्छाद्य लोकपालानां बलिं दत्वा जयशब्दादिमङ्गलैः सतूर्यनिदोषै रत्नकरम्बकं संक्षिप्य अधिवासनामण्डपात् भगवन्तं भद्रपीठे समुत्तार्य स्थिरो भवेत्युक्त्वा छादिकाभिः
सूत्रान्तरेण प्रगुणं विधाय लग्नकालमवलोकयेत् । अनन्तरमाचार्यों मध्यमया चन्दनं अङ्गुष्टतर्जनीभ्यां वासान् मुष्टौ पुष्पाक्षतान् संगृह्य वमन्त्रेण कुम्भकविधिना सृष्टिमार्गमनुस्मरन् सूत्रधारोपनीतछदिकं प्राणेन सह प्रतिष्ठाप्य । ॐअहं इति मन्त्रेणोत्तमाङ्गादिषु वासादिक्षेपं कुर्यात् । तत आचार्यमन्त्रेण । ॐनमो अरिहंताणं।
१ समन्त्रेण इति ग. पाठः। २ मनुसरन् इति क. पाठः।
Jain Education inte
For Private & Personal Use Only
www.jainelibrary.org.