Book Title: Nirvankalika
Author(s): Padliptsuri, Mohanlal Bhagwandas Jhaveri
Publisher: Nathmalji Kaniyalalji Mumbai
View full book text
________________
निर्वाणकलिका.
॥ २० ॥
Jain Education Inter
| सुराधिपतोरणेभ्यः स्वाहा । ॐनम उदुम्बरात्मकेभ्यः धर्मराजतोरणेभ्यः स्वाहा । ॐनम अश्वत्थात्मकेभ्यः सुराधिपतोरणेभ्यः स्वाहा । ॐ नमः लक्षात्मकेभ्यः यक्षाधिपतोरणेभ्यः स्वाहा ॥ इति तोरणपूजामन्त्राः ॥ ॐनमः पूर्वद्वारव्यवस्थितेभ्यो धर्मध्वजेभ्यः स्वाहा । ॐनमो दक्षिणद्वारव्यवस्थितेभ्यो मानध्वजेभ्यः स्वाहा । ॐनमः पश्चिमद्वारव्यवस्थितेभ्यो गजध्वजेभ्यः स्वाहा । ॐनमः उत्तरद्वारव्यवस्थितेभ्यः सिंहध्वजेभ्यः खाहा ॥ इति ध्वजानां पूजामन्त्राः ॥ ॐ नमः पीतद्युतिवज्राञ्छितकठिनात्मने पृथिवीमण्डलाय स्वाहा । ॐ नमः कृष्णद्युतिषड्बिन्दुलाञ्छितवृत्तात्मने वायुमण्डलाय खाहा ॥ इति मण्डलपूजामन्त्रः ॥ एवमुक्तानुक्तमपि प्रणवादिखाहान्तैः खखनामभिः पूज्यम् ॥ इति नन्दावर्तपूजा ॥ ॥ ततो धूपमुत्क्षिप्य नानाकन्दमूलफलपक्कान्नहृद्यो बलिः प्रदेयः । | सदशेन सितवाससा नूतनेन पट्टमाच्छाद्य पुष्पाक्षतचन्दनादिना वस्त्रोपरि सम्पूज्य स्थिरप्रतिमां तत्कर्णि कायां परिकल्प्य चलप्रतिमां तत्रैव स्थापयेदिति । ततः पुष्पाक्षतचन्दनवासयवालिकाकङ्कण सदशवंस्त्रोपरि | सम्पूज्य मदनफलानि सौभाग्यमत्रेणाधिवासनामन्त्रेण वा मुद्राभिश्चाभिमत्र्य प्रतिमासमीपं गत्वा चन्दनेन प्रतिमां सर्वाङ्गां विलेपयेत् । ततः पुष्पाण्यारोप्य वासक्षेपं कृत्वा तदनु कपाटजिनचक्रमुद्राभ्यां शक्तिं तेजखिनीं कृत्वा पञ्चखष्टसु चाङ्गेष्वाचार्यमत्रेण द्वितीयेन मन्त्रन्यासं विधाय पश्चात्सौभाग्यमुद्रया सौभाग्यमन्त्रं न्यसेत् । तत्राङ्गानि शिरउभयांसकुक्षिद्वयपर्यवसानानि पञ्च तथा शिरोहृदयनाभिपृष्टिबाहुद्वयोरुयुगलसंज्ञकान्यष्टा१ सलिलाधिप इति पाठः । २ वस्त्रमदन इति क. पाठः ।
For Private & Personal Use Only
बिम्बप्रति.
॥ २० ॥
www.jainelibrary.org

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138