SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ निर्वाणकलिका. ॥ २० ॥ Jain Education Inter | सुराधिपतोरणेभ्यः स्वाहा । ॐनम उदुम्बरात्मकेभ्यः धर्मराजतोरणेभ्यः स्वाहा । ॐनम अश्वत्थात्मकेभ्यः सुराधिपतोरणेभ्यः स्वाहा । ॐ नमः लक्षात्मकेभ्यः यक्षाधिपतोरणेभ्यः स्वाहा ॥ इति तोरणपूजामन्त्राः ॥ ॐनमः पूर्वद्वारव्यवस्थितेभ्यो धर्मध्वजेभ्यः स्वाहा । ॐनमो दक्षिणद्वारव्यवस्थितेभ्यो मानध्वजेभ्यः स्वाहा । ॐनमः पश्चिमद्वारव्यवस्थितेभ्यो गजध्वजेभ्यः स्वाहा । ॐनमः उत्तरद्वारव्यवस्थितेभ्यः सिंहध्वजेभ्यः खाहा ॥ इति ध्वजानां पूजामन्त्राः ॥ ॐ नमः पीतद्युतिवज्राञ्छितकठिनात्मने पृथिवीमण्डलाय स्वाहा । ॐ नमः कृष्णद्युतिषड्बिन्दुलाञ्छितवृत्तात्मने वायुमण्डलाय खाहा ॥ इति मण्डलपूजामन्त्रः ॥ एवमुक्तानुक्तमपि प्रणवादिखाहान्तैः खखनामभिः पूज्यम् ॥ इति नन्दावर्तपूजा ॥ ॥ ततो धूपमुत्क्षिप्य नानाकन्दमूलफलपक्कान्नहृद्यो बलिः प्रदेयः । | सदशेन सितवाससा नूतनेन पट्टमाच्छाद्य पुष्पाक्षतचन्दनादिना वस्त्रोपरि सम्पूज्य स्थिरप्रतिमां तत्कर्णि कायां परिकल्प्य चलप्रतिमां तत्रैव स्थापयेदिति । ततः पुष्पाक्षतचन्दनवासयवालिकाकङ्कण सदशवंस्त्रोपरि | सम्पूज्य मदनफलानि सौभाग्यमत्रेणाधिवासनामन्त्रेण वा मुद्राभिश्चाभिमत्र्य प्रतिमासमीपं गत्वा चन्दनेन प्रतिमां सर्वाङ्गां विलेपयेत् । ततः पुष्पाण्यारोप्य वासक्षेपं कृत्वा तदनु कपाटजिनचक्रमुद्राभ्यां शक्तिं तेजखिनीं कृत्वा पञ्चखष्टसु चाङ्गेष्वाचार्यमत्रेण द्वितीयेन मन्त्रन्यासं विधाय पश्चात्सौभाग्यमुद्रया सौभाग्यमन्त्रं न्यसेत् । तत्राङ्गानि शिरउभयांसकुक्षिद्वयपर्यवसानानि पञ्च तथा शिरोहृदयनाभिपृष्टिबाहुद्वयोरुयुगलसंज्ञकान्यष्टा१ सलिलाधिप इति पाठः । २ वस्त्रमदन इति क. पाठः । For Private & Personal Use Only बिम्बप्रति. ॥ २० ॥ www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy